________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-३
[ उपयोगस्वाभाव्यादेव छाद्मस्थिकयोनि-दर्शनयोः क्रमवर्तित्वम्, न पुनः
केवलिगतयोस्तयोः सहवर्तित्वाद् इति प्रतिपादनम् ] अत्र च सामान्यविशेषात्मके प्रमेयवस्तुनि तद्ग्राहि प्रमाणमपि दर्शनज्ञानरूपं तथापि च्छद्मस्थोपयोगस्वाभाव्यात् कदाचिद् ज्ञानोपसर्जनो दर्शनोपयोगः कदाचित्तु दर्शनोपसर्जनो ज्ञानोपयोग इति क्रमेण दर्शनज्ञानोपयोगी, क्षायिके तु ज्ञानदर्शने युगपद्वर्तिनी इति दर्शयन्नाह सूरिः
मणपज्जवणाणंतो णाणस्स य दरिसणस्स य विसेसो ।
केवलणाणं पुण दंसणं ति णाणं ति य समाणं ।।३।। मनःपर्यायज्ञानमन्तः पर्यवसानं यस्य विश्लेषस्य स तथोक्तो ज्ञानस्य च दर्शनस्य च विश्लेषः पृथग्भावो मत्यादिषु चतुर्षु ज्ञानदर्शनोपयोगौ क्रमेण भवत इति यावत् । तथाहिचक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानि छद्मस्थोपयोगात्मकज्ञानत्वात् श्रुत-मनःपर्यायज्ञानवत् । वाक्यार्थविशेषविषयं श्रुतज्ञानम्, मनोद्रव्यविशेषालम्बनं च मनःपर्यायज्ञानम् एतद्द्वयमपि अदर्शनस्वभावं मत्यवधिज्ञानदर्शनोपयोगाद् भिन्नकालं सिद्धम् । केवलज्ञानं पुनः केवलाख्यो बोधो दर्शनमिति वा ज्ञानमिति वा यत् केवलं तत् समानं समानकालं द्वयमपि युगपदेवेति भावः । तथाहि-एककालौ केवलिगतज्ञानदर्शनोपयोगी तथाभूताप्रतिहताविर्भूततत्स्वभावत्वात् तथाभूतादित्यप्रकाशतापाविव यदैव केवली जानाति तदैव पश्यतीति सूरेरभिप्रायः ।।३ । । [S.T.P. 596]
___- ज्ञानबिन्दुः :छाद्मस्थिकज्ञानदर्शनयोरेव क्रमवर्तित्वम्एतञ्च तत्त्वं सयुक्तिकं सम्मतिगाथाभिरेव प्रदर्शयामः ।
“मणपज्जवनाणंतो नाणस्स य दरिसणस्स य विसेसो ।
केवलनाणं पुण दंसणं ति नाणं ति य समाणं ।।" [२/३] युगपदुपयोगद्वयाभ्युपगमवादोऽयम्-मनःपर्यायज्ञानमन्तः पर्यवसानं यस्य स तथा, ज्ञानस्य दर्शनस्य च वि लेषः पृथग्भाव इति साध्यम् । अत्र च छद्मस्थोपयोगत्वं हेतुर्द्रष्टव्यः । तथा च प्रयोगः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org