________________
९८
संमतितर्कप्रकरणे, काण्ड-२, गाथा-२
साकारं ज्ञानमित्युच्यते । निराकार-साकारोपयोगौ तूपसर्जनीकृततदितराकारौ स्वविषयावभासकत्वेन प्रवर्तमानो प्रमाणम् न तु निरस्तेतराकारौ, तथाभूतवस्तुरूपविषयाभावेन निर्विषयतया प्रमाणत्वानुपपत्तेरितरांशविकलैकांशरूपोपयोगसत्तानुपपत्तेष्टा । तेनैकान्तवाद्यभ्युपगमः ‘बोधमात्रं प्रमाणम् साकारो बोधोऽनधिगतार्थाधिगन्तृत्वविशिष्टः स एव ज्ञातृव्यापारोऽर्थदृष्टताख्यफलानुमेयः संवेदनाख्यफलानुमेयो वा अनधिगतार्थाधिगन्ता इन्द्रियादिसंपाद्यः अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्री तदेकदेशो वा बोधरूपोऽबोधरूपो वा साधकतमत्वात् प्रमाणम्' इत्यादिरूपोऽयुक्तः ।।१ || [S.T.P.458] [ दर्शनविषयीभूतस्य प्रमेयस्य न विशेषाकारेण शून्यत्वम् न वा ज्ञानविषयीभूतस्य
सामान्याकारेण इति निरूपणम् ] सामान्यविशेषात्मके च प्रमाणप्रमेयरूपे वस्तुतत्त्वे व्यवस्थिते द्रव्यास्तिकस्यालोचनमात्रं विशेषाकारत्यागि दर्शनं यत् तत् सत्यम्, इतरस्य तु विशेषाकारं सामान्याकाररहितं यद् ज्ञानं तदेव पारमार्थिकमभिप्रेतम् ‘प्रत्येकमेषोऽर्थपर्यायः' इति वचनात् । प्रमाणं तु द्रव्यपर्यायौ दर्शनज्ञानस्वरूपावन्योन्याविनिर्भागवर्तिनाविति दर्शयन्नाह
दव्वढिओ वि होऊण दंसणे पज्जवट्ठिओ होइ ।
उवसमियाईभावं पडुञ्च णाणे उ विवरीयं ।।२।। अस्यास्तात्पर्यार्थः-दर्शनेऽपि विशेषांशो न निवृत्तः नापि ज्ञाने सामान्यांश इति । द्रव्यास्तिकोऽपि इति आत्मा द्रव्यार्थरूपः स भूत्वा दर्शने सामान्यात्मके स ह्यात्मा चेतनालोकमात्रस्वभावो भूत्वा तदैव पर्यायास्तिको विशेषाकारोऽपि भवति । यदा हि विशेषरूपतयाऽऽत्मा संपद्यते तदा सामान्यस्वभावमपरित्यजन्नेव विशेषाकारप्टा विशेषावगमस्वभावं ज्ञानं दर्शने सामान्यपर्यालोचने प्रवृत्तोऽप्युपात्तज्ञानाकारः, न हि विशिष्टेन रूपेण विना सामान्यं संभवति । एतदेवाह-औपशमिकादिभावं प्रतीत्य इति औपशमिक-क्षायिकक्षायोपशमिकादीन् भावान् अपेक्ष्य विशेषरूपत्वेन ज्ञानस्वभावाद् वैपरीत्यं सामान्यरूपतां प्रतिपद्यते विशेषरूपः सन् स एव सामान्यरूपोऽपि भवति, न ह्यस्ति सामान्यं विशेषविकलं वस्तुत्वात् शिबकादिविकलमृत्त्ववत् विशेषा वा सामान्यविकला न सन्ति असामान्यत्वाद् मृत्त्वरहितशिबकादिवत् ।।२ ।। [S.T.P.596]
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org