SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ राजगच्छीय-तर्कपञ्चानन- श्रीमदभयदेवसूरिनिर्मित तत्त्वबोधविधायिन्याख्यायाः व्याख्यायाः मूलगाथास्पर्शिव्याख्यांशसहितं कतिपयमूलगाथानां च विभिन्नग्रन्थेषु तत्तद्ग्रन्थकारैः कारिताभिर्वृत्तिभिर्युक्तं महादार्शनिकशिरोमणिविक्रमादित्यादिनृपतिप्रतिबोधक श्रीसिद्धसेनदिवाकररचितं संमतितर्क-प्रकरणम् । द्वितीयकाण्डः । [ १ उपयोगनिरूपणम् ] [ व्यस्तयोर्दर्शन- ज्ञानयोः लक्षणमभिधाय द्रव्यास्तिक-पर्यायास्तिकाभ्यां तयोः स्वभावस्य विभज्य वर्णनम् ] एवमर्थाभिधानरूपज्ञेयस्य सामान्य - विशेषरूपतया द्वयात्मकत्वं प्रतिपाद्य 'ये वचनीयविकल्पाः संयुज्यमानयोरनयोर्नययोर्भवन्ति सा स्वसमयप्रज्ञापनाऽन्यथा तु सा तीर्थकृदासादना ' इति यदुक्तम् तदेव प्रपञ्चयितुम् 'उपयोगोऽपि परस्परसव्यपेक्षसामान्य-विशेषग्रहणप्रवृत्तदर्शनज्ञानस्वरूपद्वयात्मकः प्रमाणम्, दर्शन-ज्ञानैकान्तरूपस्त्वप्रमाणम्' इति दर्शयितुं प्रकरण - मारभमाणो द्रव्यार्थिक-पर्यायार्थिकाभिमतप्रत्येकदर्शन-ज्ञानस्वरूपप्रतिपादिकां गाथामाहाचार्यःजं सामण्णग्गहणं दंसणमेयं विसेसियं णाणं । दोह वि णयाण एसो पाडेक्कं अत्थपज्जाओ । । १ । । द्रव्यास्तिकस्य सामान्यमेव वस्तु तदेव गृह्यते अनेनेति ग्रहणं दर्शनमेतद् उच्यते, पर्यायास्तिकस्य तु विशेष एव वस्तु स एव गृह्यते येन तत् ज्ञानम् अभिधीयते ग्रहणम् विशेषितम् इति विशेषग्रहणमित्यभिप्रायः । द्वयोरपि अनयोर्नययोरेष प्रत्येकमर्थपर्यायः अर्थ विषयं पर्येति अवगच्छति यः सोऽर्थपर्यायः ईदृग्भूतार्थग्राहकत्वमित्यर्थः । [ उपयोगस्य साकारानाकारते स्पष्टयित्वा तयोः प्रामाण्याऽप्रामाण्यकथंताभिधानम् ] उपयोगस्य चानाकार-साकारते सामान्य-विशेषग्राहकते एव तत्र तत्राभिधीयेते । अविद्यमान आकारः भेदो ग्राह्यस्य अस्येत्यनाकारं दर्शनमुच्यते । सह आकारैर्ग्राह्यभेदैर्वर्त्तते यद् ग्राहकं तत् Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy