SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-२, गाथा-१६ ११७ दर्शनप्रयोजिकायास्तद्वाक्योपजाताया बुद्धेविषय आलम्बनम् मतेरपि त एव शब्दानभिधेया विषयः शब्दपरिकर्मणानपेक्षस्य ज्ञानस्य यथोक्तभावविषयस्य मतित्वात् । अवधिमनःपर्याययोः पुनरन्योन्यविलक्षणा भावा विषयः अवधेः पुद्गलाः मनःपर्यायज्ञानस्य मन्यमानानि द्रव्यमनांसि विषयः इति असर्वार्थान्येतानि मत्यादिज्ञानानि परस्परविलक्षणविषयाणि च अत एव भिन्नोपयोगरूपाणि ।।१६ ।। [S.T.P.616] ____ -ज्ञानबिन्दुः :क्रमेण युगपद्वा परस्परनिरपेक्षस्वविषयपर्यवसितज्ञानदर्शनोपयोगी केवलिन्यसर्वार्थत्वाद् मत्यादिज्ञानचतुष्टयवन्न स्त इति दृष्टान्तभावनापूर्वमाह “पण्णवणिज्जा भावा समत्तसुअनाणदंसणाविसओ । ओहिमणपज्जवाण य अण्णोण्णविलक्खणा विसओ ।। तम्हा चउब्विभागो जुज्जइ ण उ नाणसण जिणाणं । सयलमणावरणमणंतमक्खयं केवलं जम्हा ।।" [२/१६, १७] प्रज्ञापनीयाः शब्दाभिलाप्या भावा द्रव्यादयः समस्तश्रुतज्ञानस्य द्वादशाङ्गवाक्यात्मकस्य दर्शनायाः दर्शनप्रयोजिकायास्तदुपजाताया बुद्धेः विषयः आलम्बनम्, मतेरपि त एव शब्दावसिता विषया द्रष्टव्याः, शब्दपरिकर्मणाहितक्षयोपशमजनितस्य ज्ञानस्य यथोक्तभावविषयस्य मतित्वात् मतिश्रुतयोरसर्वपर्यायसर्वद्रव्यविषयतया तुल्यार्थत्वप्रतिपादनाञ्च, अवधिमनःपर्याययोः पुनरन्योन्यविलक्षणा भावा विषयः अवधे रुपिद्रव्यमात्रम्, मनःपर्यायस्य च मन्यमानानि द्रव्यमनासीत्यसर्वार्थान्येतानि । तस्मात् चतुर्णां मत्यादीनां विभागो युज्यते तत्तत्क्षयोपशमप्रत्ययभेदात्, न तु जिनानां ज्ञानदर्शनयोः । 'नाणदंसण त्ति' अविभक्तिको निर्देशः सूत्रत्वात् । कुतः पुनरेतदित्याह-यस्मात् केवलं सकलं परिपूर्णम् । तदपि कुतः ? यतोऽनावरणम, न हि अनावृतमसकलविषयं भवति । न च प्रदीपेन व्यभिचारः यतोऽनन्तम् अनन्तार्थग्रहणप्रवृत्तम् । तदपि कुतः ? । यतोऽक्षयम्, क्षयो हि विरोधिसजातीयेन गुणेन स्यात्, तदभावे तस्याऽक्षयत्वम्, ततष्टा अनन्तत्वमनवद्यमिति भावः । तस्मात् अक्रमोपयोगद्वयात्मक एक एव केवलोपयोगः । तत्रैकत्वं व्यक्त्या, द्वयात्मकत्वं च नृसिंहत्ववदांशिकजात्यन्तररूपत्वमित्येके । माषे स्निग्धोष्णत्ववद्व्याप्यवृत्तिजातिद्वयरूपत्वमित्यपरे । केवलत्वमावरणक्षयात्, ज्ञानत्वं जातिविशेषः, दर्शनत्वं च विषयताविशेषः दोषक्षयजन्यतावच्छेदकं इति तु वयम् । 2-उ (संमति.) । 3-णाणदंसणजिणाणं (संमति.) Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy