________________
११८
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१७
[ मत्यादिवैधhण केवलोपयोगस्य असर्वार्थत्वाभावेन . विषयभेदाभावादक्रमोपयोगद्वयात्मकैकरूपत्वसाधनम् ] एवमसकलार्थत्वं भिन्नोपयोगपक्षे दृष्टान्तसमर्थनद्वारेण प्रदोपसंहारद्वारेणाक्रमोपयोगद्वयात्मकमेकं केवलमन्यथा सकलार्थता तस्यानुपपन्नेति दर्शयितुमाह
तम्हा चउब्विभागो जुज्जइ.ण उ णाणदंसणजिणाणं ।
सयलमणावरणमणंतमक्खयं केवलं जम्हा ।।१७।। यस्मात् केवलं सकलं सकलविषयं तस्मान्न तु नैव ज्ञानदर्शनप्रधानानां निर्मूलिताशेषघातिकर्मणां जिनानां छद्मस्थावस्थोपलब्धतत्तदावरणक्षयोपशमकारणभेदप्रभवमत्यादिचतुर्ज्ञानेष्विव ज्ञानदर्शनयोः पृथक् क्रमाक्रमविभागो युज्यते । कुतः पुनः सकलविषयत्वं भगवति केवलस्यानावरणत्वात् न ह्यनावृतमसकलविषयं भवति । न च प्रदीपादिना व्यभिचारोऽनन्तत्वात् अनन्तत्वं च द्रव्यपर्यायात्मकानन्तार्थग्रहणप्रवृत्तोत्पादव्ययध्रौव्यात्मकोपयोगवृत्तत्वेनाक्षयत्वात् । यथा च सकलपदार्थविषयं सर्वज्ञज्ञान तथा प्राक् प्रदर्शितम् । ततोऽक्रमोपयोगद्वयात्मकमेकमिति स्थितम् न चाक्रमोपयोगद्वयात्मकत्वे कथं तस्य केवल व्यपदेश इति क्रमाक्रमभिन्नोपयोगवादिना प्रेर्यम् इन्द्रियालोकमनोव्यापारनिरपेक्षनिरावरणात्मसत्तामात्रनिबन्धनतथाविधार्थविषयप्रतिभासस्य तथाविधव्यपदेशविषयत्वात् । अद्वैतैकान्तात्मकं तु तन्न भवति सामान्यविशेषोभयानुभयविकल्पचतुष्टयेऽपि दोषानतिक्रमात् । तथाहि- न तावत् सामान्यरूपतया तदद्वयं सामान्यस्य विशेषनिबन्धनत्वात् तदभावे तस्याप्यभावात्, नापि विशेषमात्रत्वात् तदद्वयम् अवयवावयविविकल्पद्वयानतिक्रमात्, न तावत् तदवयवरूपम् अवयव्यभावे तदपेक्षावयवरूपताऽसंभवात्, न चावयविरूपम् अवयवाभावे तद्रूपस्यासंभवात्, न च तद्वयातिरिक्तविशेषरूपम् असदविशेषप्रसङ्गात्, न चैकान्तव्यावृत्तोभयरूपम् उभयदोषानतिक्रमात्, न चानुभयस्वभावम् असत्त्वप्रसक्तेः, न च ग्राह्यग्राहकविनिर्मुक्ताऽद्वयस्वरूपम् तथाभूतस्यात्मनः कदाचिदप्यननुभवात् सुषुप्तावस्थायामपि न ग्राह्यग्राहकस्वरूपविकलमद्वयं ज्ञानमनुभूयते ।।१७।।
1-णाणदंसण जिणाणं (ज्ञानबिन्द्र) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org