SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-२, गाथा-१८ [ अभिन्नोपयोगवादिना स्वपक्षे समापतत आगमविरोधस्यार्थगत्या व्याख्यान्तरमाश्रित्य परिहरणम् ] ज्ञानदर्शनोपयोगद्वयात्मकैककेवलोपयोगवादी स्वपक्षे आगमविरोधं परिहरन्नाह परवत्तव्वयपक्खाअविसिट्ठा तेसु तेसु सुत्तेसु । अत्थगईअ उ तेसिं वियंजणं जाणओ कुणइ ।।१८।। परैर्वेशेषिकादिभिर्यानि वक्तव्यानि प्रतिपाद्यानि तेषां पक्षा अभ्युपगमाः “युगपद् ज्ञानानुत्पत्तिः” [ ] “नागृहीतविशेषणा विशेष्ये बुद्धिः” [ ] इत्यादयः तैरविशिष्टा अभिन्ना भगवन्मुखाम्भोजनिर्गतेषु तेषु तेषु सूत्रेषु “जं समयं पासइ णो तं समयं जाणइ” [ ] इत्यादिषु अभ्युपगमाः प्रतिभासन्ते । न च ते तथैव व्याख्येयाः प्रमाणबाधनात् । तस्मात् अर्थगत्यैव सामर्थ्येनैव तेषां व्यक्तिं सकलवस्तुव्याप्यनेकान्तात्मकैककेवलावबोधप्रभवद्वादशाङ्गकश्रुतस्कन्धाविरोधेन व्याख्यां ज्ञको ज्ञाता करोति । श्रुतावधिमनःपर्यायकेवली त्रिविधो “जं समयं पासइ नो तं समयं जाणइ" । [ ] न त्वेवं केवलकेवली तस्यासर्वज्ञताप्राप्तेरिति सूरेरभिप्रायः ।।१८।। -: ज्ञानबिन्दुः :अभेदपक्षे आगमविरोधपरिहारः ननु-“भवदुक्तपक्षे 'केवली णं' इत्यादि सूत्रे जं 'समय' इत्यादौ यत्समकमित्याद्यर्थो न सर्वस्वरससिद्धः, तादृशप्रयोगान्तरे तथाविवरणभावात् तथा नाणदंसणट्ठयाए दुवे अहं' (भग० १८/ १०) इत्याद्यागमविरोधोऽपि, यद्धर्मविशिष्टविषयावच्छेदेन भेदनयार्पणं तद्धर्मविशिष्टापेक्षयैव द्वित्वादे: साकाङ्क्षत्वात्, अन्यथाऽतिप्रसङ्गात्- इत्याशक्य युक्तिसिद्धः सूत्रार्थो ग्राह्यस्तेषां स्वसमयपरसमयादिविषयभेदेन विचित्रत्वात् इत्यभिप्रायवानाह 3"परवत्तव्वयपक्खा अविसुद्धा तेसु तेसु अत्थेसु । अत्थगईअ उ तेसिं विअंजणं जाणओ कुणइ ।।" [२/१८] परेषां वैशेषिकादीनां यानि वक्तव्यानि तेषां पक्षा अविशुद्धाः तेषु तेष्वर्थेषु सूत्रे तन्नयपरि- . कर्मणादिहेतोर्निबद्धाः । अर्थगत्यैव सामर्थ्य नैव तेषामर्थानां व्यक्ति सर्वप्रवादमूलद्वादशाङ्गाऽविरोधेन 1-परवत्तव्ययपक्खा अविसुद्धा (ज्ञानबिन्दु) । 2-अत्थेसु (ज्ञानबिन्दु) । 3-परवत्तव्वयपक्खाअविसिट्ठा (संमति.) 4-सुत्तेसु (संमति.) Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy