________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१९
ज्ञको ज्ञाता करोति । तथा च 'जं समयं' इत्यादेर्यथाश्रुतार्थे केवली श्रुतावधिमनःपर्यायकेवल्यन्यतरो ग्राह्यः परमावधिकाधोवधिकच्छद्मस्थातिरिक्तविषये स्नातकादिविषये वा तादृशसूत्रप्रवृत्तौ तत्र परतीर्थिकवक्तव्यताप्रतिबद्धत्वं वाच्यम्, एवमन्यत्रापीति दिक् । - [अक्रमोपयोगद्वयात्मकमेकं चेत् केवलं किमिति मनःपर्यायवदागमे तस्य ज्ञानमात्रतया न कथनम् किमिति च ज्ञान-दर्शनरूपतया द्वैविध्येन वर्णनमिति चोद्ये मर्मोप्टाटनम् ]
यद्यक्रमोपयोगद्वयात्मकमेकं केवलं किमिति मनःपर्यायज्ञानवत् तद् ज्ञानत्वेनैव न निर्दिष्टम्? तस्मात् “केवलनाणे केवलदसणे” [ ] इति भेदेन सूत्रनिर्देशात् क्रमेण युगपद्वा भिन्नमुपयोगद्वयं केवलावबोधरूपमित्याशङ्कयाह
जेण मणोविसयगयाण दसणं णत्थि दव्वजायाण ।
तो मणपज्जवणाणं णियमा णाणं तु णिद्दिष्टुं ।।१९।। यतो मनःपर्यायज्ञानविषयगतानां परमनोद्रव्यविशेषाणां विशेषरूपतया बाह्यस्य चिन्त्यमानस्य घटादेर्लिङ्गिनो गमकतोपपत्तेः दर्शनं सामान्यरूपं नास्ति द्रव्यरूपाणां चिन्त्यमानालम्बनपरमनोद्रव्यगतानां चिन्त्याविशेषाणां विशेषरूपतया बाह्यार्थगमकत्वात तद्ग्राहि मनःपर्यायज्ञानं विशेषाकारत्वाद् ज्ञानमेव ग्राह्यदर्शनाभावाद् ग्राहकेऽपि तदभावस्ततो मनःपर्यायाख्यो बोधो नियमाद् ज्ञानमेवागमे निर्दिष्टो न तु दर्शनम् । केवलं तु सामान्यविशेषोपयोगैकरूपत्वात् केवलं ज्ञानं केवलं दर्शनं चेत्यागमे निर्दिष्टम् ।।१९।।
__ -: ज्ञानबिन्दुः :'केवलनाणे केवलदंसणे' इत्यादि भेदेन सूत्रनिर्देशस्यैकार्थिकपरतैवेत्यभिप्रायेण उपक्रमते
"जेण मणोविसयगयाण दंसणं णत्थि दव्यजादाणं ।
तो मणपज्जवनाणं नियमा नाणं तु णिद्दिटुं" [२/१९] यतो मनःपर्यायज्ञानविषयगतानां तद्विषयसमूहानप्रविष्टानां परमनोद्रव्यविशेषाणां बाह्यचिन्त्यमानार्थगमकतौपयिकविशेषरूपस्यैव सद्भावात् दर्शनं सामान्यरूपं नास्ति, तस्मात्, मनःपर्यायज्ञानं ज्ञानमेवाऽऽगमे निर्दिष्टम्, ग्राह्यसामान्याभावे मुख्यतया तद्ग्रहणोन्मुखदर्शनाभावात् । केवलं तु सामान्यविशेषोभयोपयोगरूपत्वात् उभयरूपैकमेवेति भावः ।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org