SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड - २, गाथा - २०-२१ [ एकत्वेऽपि केवलस्य ज्ञान - दर्शनोभयरूपतया शास्त्रे पाठात् तस्य कथंचिदनेकरूपत्वाभ्युपगमनम् ] तथा पुनरप्येकरूपानुविद्धामनेकरूपतां दर्शयन्नाह चक्खु अचक्खुअवाहिकेवलाण समयम्मि दंसणविअप्पा । परिपढिया केवलणाणदंसणा तेण ते अण्णा ।। २० ।। चक्षुरचक्षुरवधिकेवलानां स्वसमये दर्शनविकल्पा भेदाः परिपठितास्तेन दर्शनमध्ये पाठाद् दर्शनमपि केवलम् ज्ञानमध्ये पाठाद् ज्ञानमपि अतो भिन्ने एव केवलज्ञानदर्शने न चात्यन्तं तयोर्भेद एव केवलान्तर्भूतत्वेन तयोरभेदात् न चैवमभेदादद्वैतमेव सूत्रयुक्तिविरोधात् तत्परिच्छेदकस्वभावतया कथंचिदेकत्वेऽपि तथा तद्व्यपदेशात् ।। २० ।। -: sualdog: निर्देशभेदेनैव कथञ्चित्तयोरनैक्यं नान्यथा -- सूत्रे उभयरूपत्वेन परिपठितत्वादप्युभयरूपं केवलं न तु क्रमयोगादित्याह “चक्खु अचक्खु अवधिकेवलाण समयम्मि दंसणविअप्पा | परिपठिआ केवलनाणदंसणा तेण विय अण्णा" [२/२०] १२१ स्पष्टा । चक्षुरादिज्ञानवदेव केवलं ज्ञानमध्ये पाठात् ज्ञानमपि, दर्शनमध्ये पाठाच्च दर्शनमपीति परिभाषामात्रमेतदिति ग्रन्थकृतस्तात्पर्यम् । [ एकदेशिना मत्युपयोगं दृष्टान्तीकृत्य एकस्यापि केवलोपयोगस्य द्विरूपत्वसमर्थनम् ] एतदेव दृष्टान्तद्वारेणाह दंसणमोग्गहमेत्तं 'घडो' त्ति णिव्वण्णणा हवइ णाणं । जह एत्थ केवलाण वि विसेसणं एत्तियं चेव ।। २१ । । Jain Education International 2010_02 अवग्रहमात्रं मतिरूपे बोधे दर्शनम् 'इदम्' 'तत्' इत्यव्यपदेश्यम् 'घटः' इति निष्टायेन वर्णना निष्टायात्मिका मतिज्ञानं यथेह तथेहापीति दान्तिकं योजयति 'जह एत्थ' इत्यादिना 1-विय (ज्ञानबिन्दु) । 2- ते ( संमति ) । For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy