________________
१२२
संमतितर्कप्रकरणे, काण्ड-२, गाथा-२२
केवलयोरप्येतावन्मात्रेणैव विशेषः एकान्तभेदाभेदपक्षे तत्स्वभावयोः पूर्वोक्तदोषप्रसङ्गाद् अजहद्वृत्त्यैकरूपयोरेवाभिनिबोधिकरूपयोस्तत्तद्रूपतया तथाव्यपदेशसमासादनात् कथंचिदेकानेकात्मकत्वोपपत्ते दैकान्ते तयोरप्यभावापत्तेः ।।२१।।
- ज्ञानबिन्दुः :मतिज्ञानादेः क्रम इव केवलस्याऽक्रमेऽपि सामान्यविशेषाऽजहद्वृत्त्येकोपयोगरूपतया ज्ञानदर्शनत्वमित्येकदेशिमतमुपन्यस्यति
“दंसणमुग्गहमेत्तं 'घडो'त्ति निव्वन्नणा हवइ नाणं ।
जह इत्थ केवलाण वि विसेसणं इत्तियं चेव ।।" [२/२१] अवग्रहमानं मतिरूपे बोधे दर्शनम्, इदं तदित्यव्यपदेश्यम्, घट इति निष्टायेन वर्णना तदाकाराभिलाप इति यावत्, कारणे कार्योपचाराञ्च घटाकाराभिलापजनकं घटे मतिज्ञानमित्यर्थः । यथाऽत्रैवं तथा केवलयोरप्येतावन्मात्रेण विशेषः । एकमेव केवलं सामान्यांशे दर्शनं विशेषांशे च ज्ञानमित्यर्थः । __[ पुनरप्येकदेशिना क्रमिकभेदं दूषयितुं शास्त्रीययुक्त्या ज्ञान-दर्शनयोः
कथंचिदन्यत्वव्यवस्थापनम् ] इतष्टा कथञ्चिद् भेद:
दंसणपुठ्वं णाणं णाणणिमित्तं तु दंसणं णत्थि ।
तेण सुविणिच्छियामो दंसणणाणाण अण्णत्तं ।।२२।। दर्शनपूर्वं ज्ञानम्, ज्ञाननिमित्तं तु दर्शनं नास्तीत्युक्तं यतः सामान्यमुपलभ्य पष्टााद् विशेषमुपलभते न विपर्ययेणेत्येवं छद्मस्थावस्थायां हेतुहेतुमद्भावक्रमः । तेनाप्यवगच्छामः कथञ्चित् तयोर्भेद इति । अयं च क्षयोपशमनिबन्धनः क्रमः केवलिनि च तदभावादक्रम इत्युक्तम् ।।२२।।
1-दंसणनाणा ण (ज्ञानबिन्दु) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org