________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-२२
___-: ज्ञानबिन्दुः :एकदेश्येव क्रमिकभेदपक्षं दूषयति
“दंसणपुव्वं नाणं, नाणनिमित्तं तु दंसणं णत्थि ।
तेण सुविणिच्छियामो दंसणनाणा ण अण्णत्तं ।।" [२/२२] दर्शनपूर्वं ज्ञानमिति छद्मस्थोपयोगदशायां प्रसिद्धम् । सामान्यमुपलभ्य हि पटात् सर्वो विशेषमुपलभत इति, ज्ञाननिमित्तं तु दर्शनं नास्ति कुत्रापि तथाऽप्रसिद्धेः । तेन सुविनिष्टिानुमः दसणनाणा इति दर्शनज्ञाने नाऽन्यत्वं न क्रमापादितभेदं केवलिनि भजत' इति शेषः । क्रमाभ्युपगमे हि केवलिनि नियमाज्ज्ञानोत्तरं दर्शनं वाच्यम्, सर्वासां लब्धीनां साकारोपयोगप्राप्यत्वेन पूर्वं ज्ञानोत्पत्त्युपगमौचित्यात् । तथा च ज्ञानहेतुकमेव केवलिनि दर्शनमभ्युपगन्तव्यम्, तञ्चात्यन्ताऽदर्शनव्याहतमिति भावः । यत्तु क्षयोपशमनिबन्धनक्रमस्य केवलिन्यभावेऽपि पूर्वं क्रमदर्शनात्त.जातीयतया ज्ञानदर्शनयोरन्यत्वमिति टीकाकृव्याख्यानम्, तत् स्वभावभेदतात्पर्येण सम्भवदपि दर्शने ज्ञाननिमित्तत्वनिषेधानतिप्रयोजनतया कथं शोभत इति विचारणीयम् । ___ ननु यथा परेषां कल्पितः क्रमो वर्णनिष्ठो बुद्धिविशेषजनकतावच्छेदकोऽस्माकं च भिन्नाभिन्नपर्यायविशेषरूपः, तथा केवलिज्ञानदर्शननिष्ठस्तादृशः क्रम एवावरणक्षयजन्यतावच्छेदकः स्यादिति नोक्तानुपपत्तिरिति चेत् ? न, क्रमवत्प्रयत्नप्रयोज्यस्य सुवचत्वेऽप्यक्रमिकावरणक्षयप्रयोज्यस्य केवल्युपयोगक्रमस्य दुर्वचत्वादनन्यगत्याऽक्रमिकादप्यावरणद्वयक्षयात् क्रमवदुपयोगोत्पत्त्यभ्युपगमे च तन्नाशकारणाभावादविकलकारणात्तादृशोपयोगान्तरधाराया अविच्छेदाञ्च “जुगवं दो णत्थि उवओगा" (आव० ९७९) इति वचनानुपपतिः । न च 'ज्ञानस्य दर्शनमेवार्थान्तरपरिणामलक्षणो ध्वंस इत्युपयोगाऽयोगपद्यम्' साम्प्रतम्, साधनन्तपर्यायविशेषरूपध्वंसस्यैवावस्थितिविरोधित्वादर्थान्तरपरिणामलक्षणध्वंसस्याऽतथात्वात् अन्यथा तत्तत्संयोगविभागादिमात्रेणानुभूयमानघटावस्थित्युच्छेदापत्तेः । न च ‘जुगवं दो णत्थि उवओगा' इत्यस्योपयोगयोर्युगपदुत्पत्तिनिषेध एव तात्पर्यम्, न तु युगपदवस्थानेऽपीत्युपयोगद्वयधाराणां नाशकारणाभावेन सहावस्थानेऽपि न दोष इति साम्प्रतम्, अक्रमवादिनाप्येवं क्रमावच्छिन्नोपयोगद्वययौगपद्यनिषेधपरत्वस्य वक्तुं शक्यत्वात्, सूत्राऽसंकोचस्वारस्यादरे यदेव ज्ञानं तदेव दर्शनमित्यस्मदुक्तस्यैव युक्तत्वादिति दिक् ।
2-दंसणणाणाण (संमति.)
Jain Education International 2010_02
- For Private &Personal use Only
www.jainelibrary.org