________________
१२४
संमतितर्कप्रकरणे, काण्ड-२, गाथा-२३-२४
[ एकदेशीये अवग्रहमात्रमतिज्ञानस्य दर्शनत्वाभ्युपगमे समापततो दोषस्याभिधानं
तत्समर्थनं च ] यदुक्तम् ‘अवग्रहमात्रं मतिज्ञानं दर्शनम्' इत्यादि तदयुक्तम् अतिव्याप्तेरित्याह
जइ ओग्गहमेत्तं दंसणं ति मण्णसि विसेसिअंणाणं । मइणाणमेव दंसणमेवं सइ होइ निष्फण्णं ।।२३।। एवं सेसिंदियदंसणम्मि नियमेण होइ ण य जुत्तं ।
अह तत्थ णाणमेत्तं घेप्पइ चक्खुम्मि वि तहेव ।।२४।। यदि मत्यवबोधे अवग्रहमानं दर्शनं विशेषितं ज्ञानमिति मन्यसे मतिज्ञानमेव दर्शनमित्येवं सति प्राप्तम् न चैतद् युक्तम् । “स द्विविधोऽष्टचतुर्भेदः” (तत्त्वार्थ० अ० २ सू० ९) इति सूत्रविरोधात् ।।२३ ।।
एवं शेषेन्द्रियदर्शनेष्वप्यवग्रह एव दर्शनमित्यभ्युपगमेन मतिज्ञानमेव तदिति । न च तद् युक्तं पूर्वोक्तदोषानतिवृत्तेः । अथ तेषु श्रोतादिष्विन्द्रियेषु दर्शनमपि भवत् तद् ज्ञानमेव, मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात् । अत एव तत्र ‘श्रोत्रज्ञानम्' इत्यादिव्यपदेश उपलभ्यते 'श्रोत्रदर्शनम्' 'घ्राणदर्शनम्' इत्यादिव्यपदेशस्तु नागमे क्वचित् प्रसिद्धस्तर्हि चक्षुष्यपि तथैव गृह्यतां चक्षुर्ज्ञानम्' इति न तु 'चक्षुर्दर्शनम्' इति । अथ तत्र दर्शनम् इतरत्रापि तथैव गृह्यताम् । ज्ञानदर्शनयोरुपलम्भरूपत्वे अविशेषप्रसङ्गस्तयोरिति चेत् एवमेतद्रूपतया स्वभावभेदात् तु भेद इति ।।२४ ।।
-: ज्ञानबिन्दुः :मतिज्ञानमेवावग्रहात्मना दर्शनम्, अपायात्मना च ज्ञानमिति यदुक्तं दृष्टान्तावष्टम्भार्थमेकदेशिना तद्दूषयन्नाह
“जइ उग्गहमित्तं दंसणं ति मण्णसि विसेसिया नाणं । मइनाणमेव दंसणमेवं सइ होइ निष्फण्णं ।।" [२/२३]
1-विसेसिया (ज्ञानबिन्दु)12-विसेसिअं (संमति.)।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org