________________
संमतितर्कप्रकरणे, काण्ड - २, गाथा - २५
यदि मतिरेवावग्रहरूपा दर्शनम् विशेषिता ज्ञानमिति मन्यसे तदा मतिज्ञानमेव दर्शनमित्येवं सति प्राप्तम् । न चैतद्युक्तम्, “स द्विविधोऽष्टचतुर्भेदः " (तत्त्वार्थ० २ / ९) इति सूत्रविरोधात्, मतिज्ञानस्याष्टाविंशतिभेदोक्तिविरोधाच्च ।
“ एवं सेसिन्दियदंसणम्मि णियमेण होइ ण य जुत्तं ।
अह तत्थ नाणमित्तं घेप्पइ चक्खुम्मि वि तहेव ।। " [२ / २४ ]
एवं शेषेन्द्रियदर्शनेष्वप्यवग्रह एव दर्शनमित्यभ्युपगमेन मतिज्ञानमेव तदिति स्यात्, तच्च न युक्तम्, पूर्वोक्तदोषानतिवृत्तेः । अथ तेषु श्रोत्रादिष्विन्द्रियेषु दर्शनमपि भवज्ज्ञानमेव गृह्यते, मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात्, तद्व्यवच्छेदष्टा तथाव्यवहाराभावात्, श्रोत्रज्ञानं घ्राणज्ञानमित्यादिव्यपदेश एव हि तत्रोपलभ्यते, न तु श्रोत्रदर्शनं घ्राणदर्शनमित्यादिव्यपदेशः क्वचिदागमे प्रसिद्धः, तर्हि चक्षुष्यपि तथैव गृह्यतां चक्षुर्ज्ञानमिति न तु चक्षुर्दर्शनमिति । अथ तत्र दर्शनम्, इतरत्राऽपि तथैव गृह्यतां युक्तेस्तुल्यत्वात् ।
[ ज्ञान एव चक्षुरचक्षुर्दर्शनप्रवादसमर्थनाय दर्शनपदस्य अर्थाभिधानम् ] नन्ववग्रहस्य मतिभेदत्वाद् मतेष्टा ज्ञानरूपत्वाद् अवग्रहरूपस्य दर्शनस्याभाव एव भवेत् उच्यते
णा अपुट्ठे अविसए य अत्थम्मि दंसणं होइ । मोत्तूण लिंगओ जं अणागयाईयविसएसु ।। २५ ।।
अस्पृष्टेऽर्थरूपे चक्षुषा य उदेति प्रत्ययः स चक्षुर्दर्शनं ज्ञानमेव सत् इन्द्रियाणामविषये च परमाण्वादौ अर्थे मनसा ज्ञानमेव सद् अचक्षुर्दर्शनम्, मुक्त्वा मेघोन्नतिरूपाल्लिङ्गाद् भविष्यद्वृष्टौ नदीपूराद् वोपर्यतीतवृष्टौ वा लिङ्गिविषयं यद् ज्ञानं तस्यास्पृष्टाविषयार्थस्याप्यदर्शनत्वात् ।।२५।।
-: ज्ञानबिन्दुः
कथं तर्हि शास्त्रे चक्षुर्दर्शनादिप्रवाद इत्यत आह
---
" नाणमपुट्ठे अविसए अ अत्थम्मि दंसणं होइ ।
मुत्तूण लिङ्गओ जं अणागयाईयविसएसु ।।" [२/२५]
Jain Education International 2010_02
१२५
For Private & Personal Use Only
www.jainelibrary.org