________________
१२६
संमतितर्कप्रकरणे, काण्ड-२, गाथा-२६
अस्पृष्टेऽर्थे चक्षुषा य उदेति प्रत्ययः स ज्ञानमेव सत् चक्षुर्दर्शनमित्युच्यते, इन्द्रियाणामविषये च परमाण्वादावर्थे मनसा च उदेति प्रत्ययः स ज्ञानमेव सदचक्षुर्दर्शनमित्युच्यते । अनुमित्यादिरूपे मनोजन्यज्ञानेऽतिप्रसङ्गमाशङ्क्याह-अनागतातीतविषयेषु यल्लिङ्गतो ज्ञानमुदेति 'अयं काल आसन्नभविष्यदृष्टिकस्तथाविधमेघोन्नतिमत्त्वात्, अयं प्रदेश आसन्नवृष्टमेघः पुरविशेषवत्त्वात्' इत्यादि-रूपं तन्मुक्त्वा । इदमुपलक्षणं भावनाजन्यज्ञानातिरिक्तपरोक्षज्ञानमात्रस्य तस्याऽस्पृष्टाविषयार्थस्याऽपि दर्शनत्वेनाऽव्यवहारात् । [ अस्पृष्टाविषयावगाहित्वेऽपि न मनःपर्यायबोधस्य दर्शनत्वप्रसङ्ग इति सयुक्तिकं
प्रतिपादनम् ] यद्यस्पृष्टाऽविषयार्थज्ञानं दर्शनमभिधीयते ततः
मणपज्जवणाणं दंसणं ति तेणेह होइ ण य जुत्तं ।
भण्णइ णाणं णोइंदियम्मि ण घडादओ जम्हा ।।२६।। एतेन लक्षणेन मनःपर्यायज्ञानमपि दर्शनं प्राप्तं परकीयमनोगतानां घटादीनामालम्ब्यानां तत्रासत्त्वेनास्पृष्टेऽविषये च घटादावर्थे तस्य भावात् न चैतद् युक्तम् आगमे तस्य दर्शनत्वेनापाठात् । भण्यते अत्रोत्तरम् णोइंदियम्मि मनोवर्गणाख्ये मनोविशेषे प्रवर्तमानं मनःपर्यायबोधरूपं ज्ञानमेव न दर्शनं यस्मादस्पृष्टा घटादयो नास्य विषयो लिङ्गानुमेयत्वात् तेषाम् । तथा चागमः “जाणइ बज्झेऽणुमाणाओ” (विशेषा० भा० गा० ८१४) । ननु च परकीयमनोगतार्थाकारविकल्पस्योभयरूपत्वात् किमिति तद्ग्राहिणो मनःपर्यायावबोधस्य न दर्शनरूपता ? न, मनोविकल्पस्य बाह्यार्थचिन्तनरूपस्य विकल्पात्मकत्वेन ज्ञानरूपत्वात् तग्राहिणो मनःपर्यायज्ञानस्यापि तद्रूपतैव घटादेस्तु तत्र परोक्षतैवेति दर्शनस्याभाव एव मनोविकल्पाकारस्योभयरूपत्वेऽपि छाद्मस्थिकोपयोगस्य परिपूर्णवस्तुग्राहकत्वासंभवाञ्च न मनःपर्यायज्ञाने दर्शनोपयोगसंभवः ।।२६।।
____ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org