________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-२७
। १२७
-: ज्ञानबिन्दुः :यद्यस्पृष्टाविषयार्थज्ञानं दर्शनमभिमतं तर्हि मनःपर्यायज्ञानेऽतिप्रसङ्ग इत्याशङ्क्य समाधत्ते
"मणपज्जवनाणं दंसणं ति तेणेह होइ ण य जुत्तम् ।
भन्नइ नाणं णोइन्दियम्मि ण घडादओ जम्हा।।" [२/२६] एतेन लक्षणेन मनःपर्यायज्ञानमपि दर्शनं प्राप्तम्, परकीयमनोगतानां घटादीनामालम्ब्यानां तत्राऽसत्त्वेनाऽस्पृष्टेऽविषये च घटादावर्थे तस्यभावात् । न चैतद्युक्तम्, आगमे तस्य दर्शनत्वेनाऽपाठात् । भण्यतेऽत्रोत्तरम्-नोइन्द्रिये मनोवर्गणाख्ये मनोविशेषे प्रवर्तमानं मनःपर्यायबोधरूपं ज्ञानमेव न दर्शनम्, यस्मादस्पृष्टा घटादयो 'नाऽस्य विषय' इति शेषः, नित्यं तेषां लिङ्गानुमेयत्वात् । तथाचाऽऽगमः “जाणइ बज्झेऽणुमाणाओ” (विशेषा. गा.८१४) त्ति । मनोवर्गणास्तु परात्मगता अपि स्वाश्रयात्मस्पृष्टजातीया एवेति तदंशेऽपि दर्शनत्वप्रसङ्गः । परकीयमनोगताऽर्थाकारविकल्प एवाऽस्य ग्राह्यस्तस्य चोभयरूपत्वेऽपि छाद्मस्थिकोपयोगस्याऽपरिपूर्णार्थग्राहित्वान्न मनःपर्यायज्ञाने दर्शनसम्भव इत्यप्याहुः ।
[ अस्पृष्टाविषयावगाहि ज्ञानमेव दर्शनम् न ततः पृथगिति प्रतिपादनम् ] किञ्च,
मइसुयणाणणिमित्तो छउमत्थे होइ अत्थउवलंभो ।
एगयरम्मि वि तेसिं ण दंसणं दंसणं कत्तो ? ।।२७।। मतिश्रुतज्ञाननिमित्तश्छद्मस्थानामर्थोपलम्भ उक्त आगमे । तयोरेकतरस्मिन्नपि न दर्शनं संभवति न तावदवग्रहो दर्शनं तस्य ज्ञानात्मकत्वात् ततः कुतो दर्शनम् ? नास्तीत्यर्थः । अस्पृष्टेऽविषये चार्थे ज्ञानमेव दर्शनं नान्यदिति प्रसक्तम् ।।२७।।
-: ज्ञानबिन्दुः :किञ्च
“मइसुअनाणणिमित्तो छउमत्थे होइ अत्थउवलम्भो ।
एगयरम्मि वि तेसिं ण दंसणं दसणं कत्तो ।" [२/२७] मतिश्रुतज्ञाननिमित्तश्छद्मस्थानामर्थोपलम्भ उक्त आगमे । तयोरेकतरस्मिन्नपि न दर्शनं सम्भवति । न चाऽवग्रहो दर्शनम्, तस्य ज्ञानात्मकत्वात् । ततः कुतो दर्शनम् ? नास्तीत्यर्थः ।
।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org