________________
१२८
संमतितर्कप्रकरणे, काण्ड-२, गाथा-२८-२९
[ अस्पृष्टार्थावगाहित्वेऽपि श्रुतज्ञानस्य दर्शनत्वाभावप्रतिपादनम् ] ननु श्रुतमस्पृष्टे विषये किमिति दर्शनं न भवेत् ? इत्याह
जं पञ्चक्खग्गहणं ण इन्ति सुयणाणसम्मिया अत्था ।
तम्हा दंसणसद्दो ण होइ सयले वि सुयणाणे ।।२८।। यस्मात् श्रुतज्ञानप्रमिताः पदार्था उपयुक्ताध्ययनविषयास्तथाभूतार्थवाचकत्वात् श्रुतशब्दस्य प्रत्यक्षं न गृह्यन्ते अतो न श्रुतं चक्षुर्दर्शनसंज्ञम् मानसमचक्षुर्दर्शनं श्रुतं भविष्यतीत्येतदपि नास्ति अवग्रहस्य मतित्वेन पूर्वमेव दर्शनतया निरस्तत्वात् ।।२८।। .
- -: ज्ञानबिन्दुः :ननु श्रुतमस्पृष्टेऽर्थे किमिति दर्शनं न भवेत् ? तत्राह
“जं पञ्चक्खग्गहणं ण इन्ति सुअनाणसम्मिया अत्था ।
तम्हा सणसहोतम ण होइ सयले वि सुअनाणे ।।" [२/२८] __ यस्माच्छ्रुतज्ञानप्रमिता अर्थाः प्रत्यक्षग्रहणं न यान्ति अक्षजस्यैव व्यवहारतः प्रत्यक्षत्वात्, तस्मात् सकलेऽपि श्रुतज्ञाने दर्शनशब्दो न भवति । तथा च व्यञ्जनावग्रहाविषयार्थप्रत्यक्षत्वमेव दर्शनत्वमिति पर्यवसन्नम् । प्रत्यक्षपदादेव श्रुतज्ञानवदनुमित्यादेावृत्तौ परोक्षभिन्नत्वे सतीति विशेषणं न देयम्, 'मुत्तूण लिङ्गओ जं' इत्युक्तस्याप्यत्रैव तात्पर्यं द्रष्टव्यम् । इत्थं चाऽचक्षुर्दर्शनमित्यत्र नञः पर्युदासार्थकत्वादचक्षुर्दर्शनपदेन मानसदर्शनमेव ग्राह्यम्, अप्राप्यकारित्वेन मनस एव चक्षुःसदृशत्वान्न घ्राणदर्शनादीति सर्वमुपपद्यते । [ अवधिज्ञान एवं प्रवृत्तिनिमित्तवशेन दर्शनशब्दस्यापि लब्धावकाशत्वसमर्थनम् ] नन्वेवमवधिदर्शनस्याप्यभावः स्यादित्याह
जं अप्पुट्ठा भावा ओहिण्णाणस्स होंति पञ्चक्खा ।
तम्हा ओहिण्णाणे सणसद्दो वि उवउत्तो ।।२९।। यस्मादस्पृष्टा भावा अण्वादयोऽवधिज्ञानस्य प्रत्यक्षा भवन्ति चक्षुर्दर्शनस्येव रूपसामान्यम् ततस्तत्रैव दर्शनशब्दोऽप्युपयुक्तः ।।२९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org