________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-३०
१२९
___-: ज्ञानबिन्दुः :तथा च ‘अवधिदर्शनमपि कथं सङ्गच्छते ? तस्य व्यञ्जनावग्रहाविषयार्थग्राहित्वेऽपि व्यवहारतः प्रत्यक्षत्वाभावात् - इति शङ्कायाः प्रत्यक्षपदस्य व्यवहारनिश्चयसाधारणप्रत्यक्षार्थत्वात्, अवधिज्ञानस्य च नैप्टायिकप्रत्यक्षत्वाऽव्याहतेः परिहारमभिप्रायन्नाह
"जं अप्पुट्ठा भावा ओहिण्णाणस्स होन्ति पञ्चक्खा ।
तम्हा ओहिण्णाणे दंसणसद्दो वि उवउत्तो ।।" [२/२९] स्पष्टा । उपयुक्तः लब्धनिमित्तावकाशः । [ सिद्धान्तिना एकस्यैव केवलोपयोगस्य ज्ञानदर्शनोपयोगद्वयरूपत्वव्यावर्णनम् ] केवलावबोधस्तु ज्ञानदर्शनोपयोगद्वयात्मको ज्ञानमेव सन् दर्शनमप्युच्यत इत्याह
जं अप्पुढे भावे जाणइ पासइ य केवली णियमा ।
तम्हा तं णाणं दंसणं च अविसेसओ सिद्धं ।।३०।। यतोऽस्पृष्टान् भावान्नियमेनावश्यंतया केवली चक्षुष्मानिव पुरःस्थितं चक्षुषा पश्यति जानाति चोभयप्राधान्येन । तस्मात् तत् केवलावबोधस्वरूपं ज्ञानमप्युच्यते दर्शनमप्यविशेषत उभयाभिधाननिमित्तस्याविशेषात् न पुनर्ज्ञानमेव सदविशेषतोऽभेदतो दर्शनमिति सिद्धम् । यतो न ज्ञानमात्रमेव तत् नापि दर्शनमात्रं केवलम् नाप्युभयाक्रमरूपं परस्परविविक्तम् नापि क्रमस्वभावम् अपि तु ज्ञानदर्शनात्मकमेकं प्रमाणमन्यथोक्तवत् तदभावप्रसङ्गात् । . [सूर्यभिप्रायेण ज्ञानपञ्चक-दर्शनचतुष्कयोः स्वरूपविभजनम्]
छद्मस्थावस्थायां तु प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यनपगतावरणस्यात्मनो दर्शनोपयोगसमये ज्ञानोपयोगस्यासम्भवाद् अप्राप्यकारिनयन-मनःप्रभवार्थावग्रहादिमतिज्ञानोपयोगप्राक्तनी अवस्था अस्प(स्पृ)ष्टावभासिग्राह्यग्राहकत्वपरिणत्यवस्था व्यवस्थितात्मप्रबोधरूपा चक्षुरचक्षुर्दर्शनव्यपदेशमासादयति ।
द्रव्यभावेन्द्रियालोकमतिज्ञानावरणकर्मक्षयोपशमादिसामग्रीप्रभवरूपादिविषयग्रहणपरिणतिप्टात्मनोऽवग्रहादिरूपा मतिज्ञानशब्दवाच्यताम नुते ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org