________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा - ३०
श्रुतज्ञानावरणकर्मक्षयोपशमवाक्यश्रवणादिसामग्रीविशेषनिमित्तप्रादुर्भूतो वाक्यार्थग्रहणपरिणतिस्वभावो वाक्यश्रवणानिमित्तो वा आत्मनः श्रुतज्ञानमिति शब्दाभिधेयतामाप्नोति ।
१३०
रूपिद्रव्यग्रहणपरिणतिविशेषस्तु जीवस्य भवगुणप्रत्ययावधिज्ञानावरणकर्मक्षयोपशमप्रादुर्भूतो लोचनादिबाह्यनिमित्तनिरपेक्षः अवधिज्ञानमिति व्यपदिश्यते तज्ज्ञैः अवधिदर्शनावरणकर्मक्षयोपशमप्रादुर्भूतस्तु स एव तद्द्रव्यसामान्यपर्यालोचनस्वभावोऽवधिदर्शनव्यपदेशभवति ।
भाग्
अर्धतृतीयद्वीपसमुद्रान्तर्वर्तिसकलमनोविकल्पग्रहणपरिणतिर्मनःपर्यायज्ञानावरणकर्मक्षयोपशमादिविशिष्टसामग्रीसमुत्पादिता चक्षुरादिकरणनिरपेक्षस्यात्मनः मनःपर्यायज्ञानमिति वदन्ति विद्वांसः ।
छाद्मस्थिकोपयोगं चात्मा स्वप्रदेशावरणक्षयोपशमद्वारेण प्रतिपद्यते न त्वनन्तज्ञेयज्ञानस्वभावस्यात्मन एतदेव खण्डशः प्रतिपत्तिलक्षणं पारमार्थिकं रूपं सामान्यविशेषात्मकवस्तुविस्तरव्यापि युगपत्परिच्छेदस्वभावद्वयात्मकैककेवलावबोधतात्त्विकरूपत्वात् तस्य । तच्च तस्य स्वरूपं केवलज्ञानदर्शनावरणकर्मक्षयाविर्भूतं करणक्रमव्यवधानातिवर्तिसकललोकालोकविषयत्रिकालस्वभावपरिणामभेदानन्तपदार्थयुगपत्सामान्यविशेषसाक्षात्करणप्रवृत्तं केवलज्ञानं केवलदर्शनमिति च व्यपदिश्यते ।
तेन 'अवग्रहरूप आभिनिबोधो दर्शनम् स एव चेहादिरूपो विशेषग्राहको ज्ञानं तद्व्यतिरिक्तस्यापरस्य ग्राहकस्याभावात् तस्यैवैकस्य तथाग्रहणात् तथाव्यपदेशादुत्फणविफणावस्थासर्प्पद्रव्यवत् ततस्तयोरवस्थयोरव्यतिरेकात् तस्य च तद्रूपत्वादेक एवाभिनिबोधो दर्शनं मतिज्ञानं चाभिधीयत इति सूत्रकृतोऽभिप्रायः' इति यत् कैष्टिद् व्याख्यातं तदसङ्गतं लक्ष्यते आगमविरोधात् युक्तिविरोधाच्च । न ह्येकान्ततोऽभेदे पूर्वमवग्रहो दर्शनं पष्टाद् ईहादिकं ज्ञानं तयोष्टा तत्रान्तर्भाव इति शक्यमभिधातुम् कथंचिद्भेदनिबन्धनत्वादस्य आत्मरूपतया तु तयोरभेदोऽभ्युपगम्यत एव ।
न चैकस्यैव मतिज्ञानस्योभयमध्यपातादुभयव्यपदेशः अवग्रहस्य दर्शनत्वे 'अवग्रहादिधारणापर्यन्तं मतिज्ञानम्' इत्यस्य व्याहतेः तस्य वाऽदर्शनत्वे 'अवग्रहमात्रं दर्शनम्' इत्यस्य विरोधात् आगमविरोधष्टा तद्व्यतिरेकेण दर्शनानभ्युपगमे तदभ्युपगमे वाऽष्टाविंशतिभेद
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org