________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा - ३०
मतिज्ञानव्यतिरिक्तदर्शनाभ्युपगमात् कुतो ज्ञानमेव दर्शनं छद्मस्थावस्थायाम् ? केवल्यवस्थायां तु क्षीणावरणस्याऽऽत्मनो नित्योपयुक्तत्वात् सदैव दर्शनावस्था वर्तमानपरिणतेर्वस्तुनोऽवगमरूपायाः प्राक् तथाभूतानवबोधरूपत्वासंभवात् तथाभूतज्ञानविकलावस्थासंभवे वा प्रागितरपुरुषाविशेषप्रसङ्गात् । ततो युगपज्ज्ञानदर्शनोपयोगद्वयात्मकैकोपयोगरूपः केवलावबोधोऽभ्युपगन्तव्य इति सूरेरभिप्रायः ।। ३० ।।
ज्ञानबिन्दुः
-
केवलज्ञानेऽपीदं लक्षणमव्याहतमित्याह
--
"जं अप्पुट्ठे भावे जाणइ पासइ य केवली नियमा ।
तम्हा तं नाणं दंसणं च अविसेसओ सिद्धं ।।" [२/३०]
१३१
यतोऽस्पृष्टान् भावान्नियमेनाऽवश्यतया केवली चक्षुष्मानिव पुरःस्थितं जानाति पश्यति चोभयप्राधान्येन तस्मात्तत्केवलज्ञानं दर्शनं चाविशेषतः उभयाभिधाननिमित्तस्याविशेषात् सिद्धम् । मनःप्रर्यायज्ञानस्य तु व्यञ्जनावग्रहाऽ विषयार्थकप्रत्यक्षत्वेऽपि बाह्यविषये व्यभिचारेण स्वग्राह्यतावच्छेदकावच्छेदेन प्रत्यक्षत्वान्न दर्शनत्वमिति निष्कर्षः ।
अत्र यट्टीकाकृता - प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यपनीतावरणे युगपदुभयस्वभावो बोधः, छद्मस्थाऽवस्थायां त्वनपगतावरणत्वेन दर्शनोपयोगसमये ज्ञानोपयोगाभावादप्राप्यकारिनयनमनः प्रभवाऽर्थावग्रहादिमतिज्ञानोपयोगप्राक्काले चक्षुरचक्षुर्दर्शने अवधिज्ञानोपयोगप्राक्काले चावधिदर्शनमाविर्भवति' इति व्याख्यातं तदर्धजरतीयन्यायमनुहरति, प्राचीनप्रणयमात्रानुरोधे श्रोत्रादिज्ञानाद् प्रागपि दर्शनाऽभ्युपगमस्याऽवर्जनीयत्वात्, व्यञ्जनावग्रहार्थावग्रहान्तराले दर्शनानुपलम्भात्, तदनिर्देशाच्च, असङ्ख्येयसामयिकव्यञ्जनावग्रहान्त्यक्षणे “ ताहे हुन्ति करे " ( नन्दी० सू० ३५) इत्यागमेनार्थावग्रहोत्पत्तेरेव भणनात्, व्यञ्जनावग्रहप्राक्काले दर्शनपरिकल्पनस्य चात्यन्ताऽनुचितत्वात् । तथा सति तस्येन्द्रियार्थसन्निकर्षादपि निकृष्टत्वेनानुपयोगत्वप्रसङ्गाच्च । प्राप्यकारीन्द्रियजज्ञानस्थले दर्शनानुपगमे चान्यत्रापि भिन्नतत्कल्पने न किञ्चित्प्रमाणम्, 'नाणमपुट्टे' इत्यादिना ज्ञानादभेदेनैव दर्शनस्वभावप्रतिपादनात् 'चक्षुर्वद्विषयाख्यातिः' इत्यादिस्तुतिग्रन्थैकवाक्यतयाऽपि तथैव स्वारस्याच्च । छद्मस्थज्ञानोपयोगे दर्शनोपयोगत्वेन हेतुत्वे तु चक्षुष्येव दर्शनं नान्यत्रेति कथं श्रद्धेयम् ? तस्माच्छ्रीसिद्धसेनोपज्ञनव्यमते न कुत्राऽपि ज्ञानाद्दर्शनस्य कालभेदः । किन्तु स्वग्राह्यतावच्छेदकावच्छेदेन व्यञ्जनावग्रहाऽविषयीकृतार्थप्रत्यक्षत्वमेव दर्शनमिति फलितम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org