________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-३१
यदि च चाक्षुषादावपि ज्ञानसामग्रीसामर्थ्यग्राह्यवर्तमानकालाद्यंशे मितिमात्राद्यंशे च न दर्शनत्वव्यवहारस्तदा विषयताविशेष एव दर्शनत्वम् । स च कचिदंशे योग्यताविशेषजन्यताऽवच्छेदकः, क्वचिञ्च भावनाविशेषजन्यताऽवच्छेदकः, केवले च सर्वांशे आवरणक्षयजन्यताऽवच्छेदक इति प्रतिपत्तव्यम् । न च ‘अर्थेनैव धियां विशेष इति (न्या०कु० ४-४) न्यायादर्थाऽविशेष ज्ञाने विषयताविशेषाऽसिद्धिः' इति शङ्कनीयम्, अर्थेऽपि ज्ञानानुरूपस्वभावपरिकल्पनात्, अर्थाऽविशेषेऽपि परैः समूहालम्बनाद्विशिष्टज्ञानस्य व्यावृत्तये प्रकारिताविशेषस्याऽभ्युपगमाञ्च । न हि तस्य तत्र भासमानवैशिष्ट्यप्रतियोगिताज्ञानत्वमेव विशिष्ट्यज्ञानत्वं वक्तुं शक्यम्, दण्डपुरुषसंयोगा इति समूहालम्बनेऽतिप्रसङ्गात् । न च भासमानं यद्वैशिष्ट्यप्रतियोगित्वं (तन्निरूपकज्ञानत्वमेव तथा, 'दण्डपुरुषसंयोगप्रतियोगित्वानुयोगित्वानी'ति ज्ञाने दण्डविशिष्टज्ञानत्वापत्तेः । न च स्वरूपतो भासमानमित्याधुक्तावपि निस्तारः, प्रतियोगित्वादेरतिरिक्तत्वे प्रकारितत्वादेर्ज्ञाननिष्ठस्य कल्पनाया एव लघुत्वात् । अनतिरेके तु दण्डदण्डत्वानिर्विकल्पकेऽपि दण्डादिविशिष्टज्ञानत्वापत्तेः ।
एतेन स्वरूपतो भासमानेन वैशिष्ट्येन गर्भितलक्षणमप्यपास्तम्, संयुक्तसमवायादेः सम्बन्धत्वे स्वरूपत इत्यस्य दुर्वचत्वाञ्च । तस्मात् पराभ्युपगतप्रकारिताविशेषवदाकारविशेषः स्याद्वादमुद्रयाऽर्थानुरुद्धस्तदननुरुद्धो वा ज्ञाने दर्शनशब्दव्यपदेशहेतुरनाविलस्तत्समय एवाऽर्थज्ञानयोरविनिगमेनाऽऽकाराकारिभावस्वभावाविर्भावादित्येष पुनरस्माकं मनीषोन्मेषः । [ एक एक केवलोपयोगो व्यात्मक इति स्वसिद्धान्तः समयान्तरोत्पादवचनं तु
परतीर्थिकमतकथनमिति विभजनम् ] द्वयात्मक एक एव केवलावबोध इति दर्शयन्नाह
साई अपज्जवसियं ति दो वि ते ससमयओ हवइ एवं ।
परतित्थियवत्तव्वं च एगसमयंतरुप्पाओ ।।३१।। द्वे अपि ते ज्ञानदर्शने यदि युगपद् न नाना भवतस्तदा स्वसमयः स्वसिद्धान्तः "साद्यपर्यवसिते' इति घटते यस्त्वेकसमयान्तरोत्पादस्तयोः ‘यदा जानाति तदा न पश्यति' इत्येवमभिधीयते स परतीर्थिकशास्त्रं नार्हद्वचनम नयाभिप्रायेण प्रवृत्तत्वादिति सूरेरभिप्रायः ।।३१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org