SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-२, गाथा-३२ १३३ -: ज्ञानबिन्दुः :तस्माद् द्व्यात्मक एक एव केवलावबोध इति फलितं स्वमतमुपदर्शयति "साई अपज्जवसियं ति दो वि ते ससमयं हवइ एवं । परतित्थियवत्तव्यं च एगसमयंतरुप्पाओ ।।" [२/३१] साद्यपर्यवसितं केवलमिति हेतोझै अपि ज्ञानदर्शने ते उभयशब्दवाच्यं तदिति यावत् । अयं च स्वसमयः स्वसिद्धान्तः । यस्त्वेकसमयान्तरोत्पादस्तयोर्भण्यते तत्परतीर्थिकशास्त्रम्, नार्हद्वचनम्, नयाऽभिप्रायेण प्रवृत्तत्वादिति भावः । [ एवंभूततत्त्वश्रद्धानरूपस्य सम्यग्दर्शनस्य सम्यग्ज्ञानरूपत्वमेव इति वर्णनम् ] एवंभूतं वस्तुतत्त्वं श्रद्दधानः सम्यग्ज्ञानवानेव पुरुषः सम्यग्दृष्टिरित्याह एवं जिणपण्णत्ते सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे सणसद्दो हवइ जुत्तो ।।३२।। एवमनन्तरोक्तविधिना जिनप्रज्ञप्तान भावान् श्रद्दधानस्य पुरुषस्य यदाभिनिबोधिकं ज्ञानं तदेव सम्यग्दर्शनम् विशिष्टावबोधरूपाया रुचेः सम्यग्दर्शनशब्दवाच्यत्वादिति भावः ।।३२।। -: ज्ञानबिन्दु: :एवम्भूतवस्तुतत्त्वश्रद्धानरूपं सम्यग्दर्शनमपि सम्यग्ज्ञानविशेष एव । सम्यग्दर्शनत्वस्याऽपि सम्यग्ज्ञानत्वव्याप्यजातिविशेषरूपत्वात्, विषयताविशेषरूपत्वाद्वेत्याह “एवं जिणपण्णत्ते सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे दंसणसद्दो हवइ जुत्तो ।।" [२/३२] जिनप्रज्ञप्तभावविषयं समूहालम्बनं रुचिरूपं ज्ञानं मुख्यं सम्यग्दर्शनम्, तद्वासनोपनीतार्थविषयं घटादिज्ञानमपि भाक्तं तदिति तात्पर्यार्थः । -: तत्त्वार्थाधिगमसूत्रे : महामहो.यशोविजयजीकृतविवरणे अ.१, सू.१ अत्रेदमवधेयम्, न ह्यपायमात्रे रुचित्वं वक्तुं शक्यं घटाद्यपाये तदननुभवात्, किन्तु जीवाजीवादि Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy