________________
१३४
संमतितर्कप्रकरणे, काण्ड-२, गाथा-३३
समूहालम्बनज्ञानविशेष एव, अत एव श्रद्धात्वं ज्ञानत्वव्याप्यो जातिविशेष इति परेऽपि वदन्ति, तदवच्छिन्ने च दर्शनावरणक्षयोपशमानामेकशक्तिमत्त्वादिना हेतुत्वमिति ज्ञानावरणविशेष एव दर्शनावरणम्, पृथग्विभागादिप्रक्रिया तु गोवृषन्यायात्, तदिदमभिप्रेत्योक्तं सम्मतौ
“एवं जिणपण्णते, सद्दहमाणस्स भावओ भावे ।
पुरिसस्साभिणिबोहे, दंसणसद्दो हवइ जुत्तो ।। १ ।। त्ति" श्रद्दधतः समूहालम्बनतयाऽवगृह्णतो भावतो रुचिरूपतया । तथा च पूर्वद्वयलाभे भजनीयमुत्तरमिति केयं वाचो युक्तिः, द्वितीयलाभे प्रथमस्यापि भजनीयत्वावकाशात् । यदि च मुख्यं सम्यग्दर्शनं रुचिरूपोक्तज्ञानविशेष एव, भाक्तं चानेकान्तागमवासनोपनीतसर्वानैकान्त्यावगाहिघटाद्यपायोऽपीति तदुभयसामान्यं सगृह्यते तदा भवति सम्यग्ज्ञानेन समं सामनैयत्यम् ।
[ सम्यग्ज्ञाने दर्शनत्वस्य नियततया दर्शने सम्यग्ज्ञानत्वस्य विकल्पनीयतया
सम्यग्दर्शनं विशिष्टज्ञानरूपमेव इति फलिताभिधानम् ] ननु यदि सम्यग्ज्ञाने सम्यग्दर्शनं नियमेन दर्शनेऽपि सम्यग्ज्ञानं किमिति न स्यात् ? न, एकान्तरुचावपि सम्यग्ज्ञानप्रसक्तेरित्याह
सम्मण्णाणे णियमेण दंसणं दंसणे उ भयणिज्जं ।
सम्मण्णाणं च इमं ति अत्थओ होइ उववण्णं ।।३३।। सम्यग्ज्ञाने नियमेन सम्यग्दर्शनं दर्शने पुनर्भजनीयं विकल्पनीयं सम्यग्ज्ञानम् एकान्तरुचौ न संभवति अनेकान्तरुचौ तु सम्यग्दर्शने समस्ति । यतप्टौवमतः सम्यग्ज्ञानं चेदं सम्यग्दर्शनं च विशिष्टरुचिस्वभावमवबोधरूपमर्थतः सामर्थ्यादुपपन्नं भवति ।।३३ ।।
-: ज्ञानबिन्दुः :ननु सम्यग्ज्ञाने सम्यग्दर्शननियमवद्दर्शनेऽपि सम्यग्ज्ञाननियमः कथं न स्यात्, इत्यत्राह
“सम्मन्नाणे णियमेण दंसणं, दंसणे उ भयणिजं ।
सम्मन्नाणं च इमं ति अत्थओ होइ उववण्णं ।।" [२/३३] सम्यग्ज्ञाने नियमेन सम्यग्दर्शनम्, दर्शने पुनर्भजनीयं विकल्पनीयम्, सम्यग्ज्ञानं एकान्तरुचौ न
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org