________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा- ३३
सम्भवति, अनेकान्तरुचौ तु समस्तीति । अतः सम्यग्ज्ञानं चेदं सम्यग्दर्शनं चेत्यर्थतः सामर्थ्यादेकमेवोपपन्नं भवति । तथा च सम्यक्त्वमिव दर्शनं ज्ञानविशेषरूपमेवेति निर्व्यूढम् ।
प्राचां वाचां विमुखविषयोन्मेष सूक्ष्मेक्षिकायाम्, येऽरण्यानीभयमधिगता नव्यमार्गाऽनभिज्ञाः । तेषामेषा समयवणिजां सन्मतिग्रन्थगाथा; विश्वासाय स्वनयविप्रणिप्राज्यवाणिज्यवीथी ।। १ ।। भेदग्राहिव्यवहतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करणफलयोः सीम्नि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेन - स्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ।। २ ।।
चित्सामान्यं पुरुषपदभाक्केवाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साधनन्तं यदेव । सूक्ष्मैरंशैः क्रमवदिदमप्युच्यमानं न दुष्टम्; तत्सूरीणामियमभिमता मुख्यगौणव्यवस्था । । ३ ।।
तमोऽपगमचिज्जनुः क्षणभिदानिदानोद्भवाः, श्रुता बहुतराः श्रुते यविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये; प्रधानपदवी धियां क्व न दवीयसी दृश्यते । । ४ । ।
प्रसह्य सदसत्त्वयोर्न हि विरोधनिर्णायकम् विशेषणविशेष्ययोरपि नियामकं यत्र न । गुणाऽगुणविभेदतो मतिरपेक्षया स्यात्पदात्; किमत्र भजनोर्जिते स्वसमये न सङ्गच्छते ! । । ५ । ।
प्रमाणनयसङ्गता स्वसमयेऽप्यनेकान्तधी-,
1
र्नयस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता । कदाचन न बाधते सुगुरुसम्प्रदायक्रमम्; समञ्जसपदं वदन्त्युरुधियो हि सद्दर्शनम् ||६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
१३५
www.jainelibrary.org