________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-३३
रहस्यं जानन्ते किमपि न नयानां हतधियो, विरोधं भाषन्ते विविधबुधपक्षे बत खलाः ।
अमी चन्द्राऽऽदित्यप्रकृतिविकृतिव्यत्ययगिरः; निरातङ्का कुत्राऽप्यहह न गुणान्वेषणपराः ।।७।। स्याद्वादस्य ज्ञानबिन्दोरमन्दान्मन्दारद्रोः को फलास्वादगर्वः, द्राक्षासाक्षात्कारपीयूषधारादारादीनां को विलासप्टा रम्यः ।।८।।
-: तत्त्वार्थाधिगमसूत्रे :
महामहो.यशोविजयजीकृतविवरणे अ.१, सू.१ तदिदमाहसम्मन्नाणे णियमेण दंसणं दंसणे उ भइअव्वं । सम्मन्नाणं च इमं, ति अत्थओ होइ उववन्नं ।। १ ।। दर्शने तु भक्तव्यम्, इति, एकान्तरुचौ न भवत्यनेकान्तरुचौ तु भवत्येवेति, अविशेषितदर्शनेन सह भजनोक्तावपि सम्यक्पदविशेषणे, नेयमित्याशयेनाह-'इदं सम्यग्दृष्टिप्रत्यक्षं सम्यग्ज्ञानं चशब्दात् सम्यग्दर्शनमित्यर्थत उपपन्नम्' अर्थापत्तिसिद्धमित्यर्थ इति । इदं पुनरन्यदवधेयम् । एवं सति चारित्रमपि ज्ञानविशेष एव, विषयप्रतिभासात्मज्ञानतत्त्वसंवेदनेषु बुद्धिज्ञानाऽसम्मोहेषु च तृतीयस्य तत्स्थानेऽभिषेचनीयत्वात्, तदावरणस्य च चारित्रमोहत्वेन पृथगभिधानं प्राग्वदेव, ज्ञानैकशेषे विनिगमकं चात्मगुणानामात्मनो ज्ञस्वाभाव्यमेव । तदिदमुक्तम्
“आत्मानमात्मना वेत्ति, मोहत्यागाद्यदात्मनि । तदेव तस्य चारित्रम्, तज्ज्ञानं तच्च दर्शनम् ।। १ ।।" तथा च उत्तरलाभे पूर्वद्वयनैयत्यं स्वरूपतो न तु भेदगर्भतयेति दिग् ।
[ सूत्रोक्तं साद्यपर्यवसितत्वं शब्दशः स्पृशतां केषांचिदाचार्याणां गर्विष्ठतया
सम्यग्वादित्वाभावप्रतिपादनम् ] अत्र साद्यपर्यवसितं केवलज्ञानं सूत्रे प्रदर्शितम् अनुमानं च तथाभूतस्य तस्य प्रतिपादकं संभवति । तथाहि-घातिकर्मचतुष्टयप्रक्षयाविर्भूतत्वात् केवलं सादि न च तथोत्पन्नस्य पष्टात्तस्यावरणमस्ति अतोऽनन्तमिति न पुनरुत्पद्यते विनाशपूर्वकत्वादुत्पादस्य न हि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org