Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

Previous | Next

Page 17
________________ यद्दत्तमाज्यं साधुभ्यो, धनसार्थेशजन्मनि । तेनाऽभूच्छीयुगादीशः, स त्रैलोक्यपितामहः ॥ ७॥ पाणेरिक्षुरंसं दातुः, प्रपौत्रस्यापि यत्प्रभुः । अधः पाणिमधान्नूनं, तन्माहात्म्यं मम स्फुटम् ॥ ८॥ ये न कस्यापि साहाय्यमीहन्ते कर्मणि क्वचित् । दातारं तेऽप्यपेक्षन्ते, प्रवृत्ता मुक्तिवर्त्मनि ॥ ९॥ किं बहुना । निधयो नव यत्पुंसः, सिद्धयोऽष्टौ च सद्मनि । यच्चाऽन्यदपि सद्भोगारोग्याचं तत्फलं हि मे ॥ १०॥ शीलं तदाख्यत्सोत्कर्ष, मोक्षाङ्गेष्वत्र मुख्यता । . ममैव युक्त्या घटते, न त्वन्येषां कथञ्चन ॥ ११॥ इहोद्भूताद्भुतप्रातिहार्यो यत्प्राप निर्वृतिम् ।। श्रेष्ठी सुदर्शनस्तत्र, हेतुः कोऽपि न मत्परः ॥ १२॥ सत्यः सीतासुभद्राद्याः, साधयन्ति स्म यत्पुरा । तत्तद्दुःसाधकृत्यानि,तन्माहात्म्यं हि मेऽनघम् ॥ १३॥ स्वेच्छाचार्यपि सावधनिरतः कलिकौतुकी । मामाराध्य मनःशुद्धया, नारदो मोक्षमाप्नुयात् ॥ १४॥ अन्यैरप्युक्तम्"कैलिकारओऽवि जणमारओऽवि सावजजोगनिरओऽवि । जं नारओऽवि सिज्झइ, तं खलु सीलस्स माहप्पं" ॥1॥ १. 'दातुः' इति तृना योगे षष्ठयभावः । २. आप्तवान् इति भवेत्। ३. कलिकारकोऽपि जनमारकोऽपि सावधयोगनरितोऽपि। यन्नारदोऽपि सिद्धयति तत् खलु शीलस्य माहात्म्यम्"॥ इति च्छायां ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106