Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 60
________________ प्रायो निःस्वामिकं राज्यं, सम्यग्रक्षाविधिं विना । दुष्टा द्विषोऽधितिष्ठेयुर्निर्जीवाङ्गमिवाऽमराः ॥ ४३४॥ महाभाग्यबलस्यास्य,राज्यं तावदिहास्तु वा । . इदानीं पदयोरेवमस्माकं हि कृतज्ञता ॥ ४३५॥ सामन्तामात्यसांमत्यादिति सिंहासने चिरम् । निवेश्य नेमुर्निखिला, राजवर्याः प्रभोः पदा ॥ ४३६॥ तस्मिन्सुराज्ञि राजन्या, दानसन्मानतोषिताः । न केचिदपि शून्येऽपि, राज्ये विघटितास्तदा ॥ ४३७॥ अथ दर्शनसोत्कण्ठा, अकुण्ठस्नेहसम्भ्रमाः । राज्यागच्छति ते सर्वे, सद्यः सम्मुखमाययुः ॥ ४३८ ॥ तान्सम्भाष्य यथौचित्यं, प्राविशत्स्वपुरेऽथ सः । दीनदुःस्थार्थिनो दानैः, प्रीणयन्परितः पथि ॥ ४३९॥ निजास्थानसभां प्राप्य, सर्वाश्चानन्दयत्प्रजाः । उदयक्ष्माभृतश्चूडां, चक्रवाकीरिवार्यमा ॥ ४४०॥ स्नेहाच्च स्ववियोगाग्निप्रज्वलन्मनसश्चिरात् । . सर्वा यथौचितालापैः, प्रेयसीरप्यपिप्रिणत् ॥ ४४१॥ शृङ्गारसुन्दरी शुद्धशीला १ रत्नवती २ तथा । पत्रवल्ली ३ मोहवल्ली ४, तथा सौभाग्यमञ्जरी ५ ॥ ४४२॥ देवसेना च ६ गन्धर्वसेना ७ कनकमञ्जरी ८। गुणाच्च मञ्जरी ९ तस्य, पट्टराग्यो नवाऽभवत् ॥ ४४३॥ ग्रामाणां स्वःसमृद्धीनां, विंशतिस्तस्य कोटयः । सहस्रा रत्नयोनीनां, पत्तनानां च विंशतिः ॥ ४४४॥ १. 'सभामाप्य' इत्यपि । २. 'त्यस्य' इत्यपि । ३. 'तस्य विंशतिकोटयः' इत्यपि । ४५.Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106