Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan
________________
इत्थं च गुणमञ्जर्या, रे किमन्ध ! न पश्यसि ? । तत्तद्व्याधिरभूदत्र, तत्तत्कर्म फलं तयोः ॥ ८४५॥ आक्रोश्यैवं च यत्ताभ्यां, विदधेऽनुशयो मनाक् । तेनापीग्विधो व्याधिरुपशान्तः पुनस्तयोः ॥ ८४६॥ यदेकतुम्बकमितं, निर्दोषं तन्दुलोदकम् । समये श्रद्धया दत्तं, सुसाधुभ्यस्तदा त्वया ॥ ८४७॥ सर्वार्थसाधकमिदं, तत्तेऽभूद्रसतुम्बकम् । नि:सपत्नं च साम्राज्यं, सदोदित्वरसन्महः ॥ ८४८॥ वृत्तं प्राच्यभवस्येहक्, सम्यक् सर्वविदो मुखात् । निशम्य सप्रियो राजा, जातिस्मरणमाप सः ॥ ८४९॥ यथोक्तं तेन तद्वृत्तं, वीक्ष्य साक्षादिवाऽखिलम् । प्राप्तश्चाऽभङ्गवैराग्यं, चेतस्येवमचिन्तयत् ॥ ८५०॥ दुःखैकसारे संसारे, संसरद्भिः शरीरिभिः । 'भुक्ता ह्यनन्तशस्तृष्णातरलैंर्विषयाः पुरा ॥ ८५१ ॥ तथापीह भृशासक्तिभृतस्तेष्वेव ही ! जडाः । . आचरन्त्यार्हतं धर्म, न प्रेत्य हितमात्मनः ॥ ८५२ ॥ शरत्कालाऽभ्रपटलं, विलीयेताऽनिलाद्यथा । मन्ये तथात्र संसारे, सर्वं क्षणविनश्वरम् ॥ ८५३ ॥ . कल्लोललोला कमला, पुनरत्रेष्टसङ्गमाः । मार्गस्थतरुविश्रान्तसार्थसंयोगसन्निभाः ॥ ८५४ ॥ आपातमधुराः सर्वे, विषयाः प्रान्तदारुणाः । रम्भान्तरिव संसारे, सारं किञ्चिन्न वीक्ष्यते ॥ ८५५ ॥ 1. કેળનો અંદરનો ભાગ
८५
Page Navigation
1 ... 98 99 100 101 102 103 104 105 106