Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 61
________________ वेलाकूलसहस्राणि, द्वादशैतस्य भूभुजः । दश द्वीपसहस्त्राणि तावन्तश्च किरीटिनः॥ ४४५ ।। चत्वारिंशत्पत्तिकोट्यास्त्रिशल्लक्षाश्च दन्तिनाम् । लक्षा रथानां चाऽश्वानां, चत्वारिंशच्च निश्चिताः ॥ ४४६ ॥ सहस्रा जलदुर्गाणां, पञ्चाऽन्येषां च ते दश । खेटाः सहस्र सेवन्ते, तं च हेमाङ्गदादयः ॥ ४४७॥ दीनदुःस्थोद्धृतौ धर्मे, स्वाश्रितानां च पोषणे । .. तस्य राज्ञः प्रतिदिनं, स्वर्णकोटिव्ययो गृहे ॥ ४४८॥ यः प्राप्तः प्राक्तनैः पुण्यैस्तुम्बकस्थो महारसः । । तेन तावदपि स्वर्णं, तस्य सम्पद्यते सदा ॥ ४४९॥ आधयो व्याधयः सप्तापीतयश्च प्रसृत्वराः । . रसानुभावात्तद्राज्ये, प्रासरन्नहि कर्हिचित् ॥ ४५० ।। रत्नपालस्य नृपतेरथ मेघरथादयः । क्रमेणासशतं पुत्राः, संपत्राकृतशत्रवः ॥ ४५१॥ खेलतोऽस्य सुखाम्भोधावीदृगैश्वर्यशालिनः । सुखं दशशरल्लक्षा, व्यतीयुर्वासरा इव ॥ ४५२॥ . अथान्यदा पुरे तत्र, महासेनमहामुनिः । मूर्तो धर्म इव प्रापत्, पौरानुग्रहकाम्यया ॥ ४५३॥ . तं मिथ्यात्वविषावेगविध्वंसिवचनामृतम् । श्रद्धालुमनसः पौरा, नैके वन्दितुमाययुः ॥ ४५४॥ रत्नपालोऽपि नृपतिः, सान्तःपुरपरिच्छदः । तं जङ्गममहातीर्थमुपासितुमुपागमत् ॥ ४५५॥ . १. उन्मूलितशत्रवः ।Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106