Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

Previous | Next

Page 75
________________ भावितानि मयैतानि, सिद्धमन्त्रेण सार्दरम् । तद्वत्स! विधिनोप्तानि, रोहन्त्येतानि तत्क्षणम् ॥ ५८३॥ वल्लीवितान: स्तृणुते, घटीयुग्मेन मण्डपम् । जायन्ते परितस्तत्र, तत्कालं च फलान्यपि ॥ ५८४॥ व्यधुश्चैतान्यनाहार्यमाधुर्येण सुधामधः । .. एतैरास्वाद्यमानैश्च, क्षुत्तृट्पीडा प्रशाम्यति ॥ ५८५॥ सन्निपाताः समे वाताः, सर्वे रोगाश्च चक्षुषः । कुष्ठान्यष्टादशाप्याशु, शाम्यन्त्यास्वादितैश्च तैः ॥ ५८६॥ इत्युक्त्वा च गतो योगी, सिद्धदत्तोऽथ सद्मनि ।। तानि बीजानि कतिचिद्वाटके विधिनोप्तवान् ॥ ५८७॥ तत्कालमुद्गता वल्यो, विस्तृताश्चाशु मण्डपे ।' फलिताश्च फलैराप्तवाणी नहि मृषा क्वचित् ॥ ५८८॥ शतं सहस्रं लक्षं वा, समास्मादथादरात् । तानि गृह्णन्ति धनिनो, दुष्टव्याधिभिरर्दिताः ॥ ५८९॥ रोगार्दितेभ्यो लोभेन, धनैस्तैः स्वैरमाहृतैः । । सिद्धदत्तोऽथ समभूद्धनवानचिरादपि ॥ ५९०॥ अथ तस्य गृहे वित्तमवर्धिष्ट यथा यथा । हृदीव स्पर्द्धया लोभो, वर्धते स्म तथा तथा ॥ ५९१॥ यथा लाभस्तथा लोभो, वर्धते ह्यधिकाधिकः । न रैकोट्याऽपि यत्तृप्तो, द्विमाषाऽर्थी पुरा द्विजः ॥ ५९२॥ 1. 'भूरिशः' इत्यपि । -- ६0 -

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106