Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 89
________________ यच्छुभं सुदिनं कुर्यात्, प्राच्यपुण्योपढौकितम् । न हि माता पिता भ्राता, सुहृत्स्वामी च तन्नृणाम् ॥ ७२२॥ दुष्कर्मोपस्थितं घोरं, यत्कुर्याच्चादिनं नृणाम् । विरूपं व्यालवैतालादयो रुष्टा न जातु तत् ॥ ७२३ ॥ प्रसरेत्काश्चिदा(द )प्यब्धिः, काश्चिच्चाऽपसरेत्तिथीः । दिनादिनकृतस्तत्र, विशेषो वीक्ष्यते स्फुटः ॥ ७२४॥ चीयते विधुरेकत्र, पक्षेऽन्यत्र च हीयते । दिनादिनफलं देवेष्वपीदं का कथा नृणाम् ? ॥ ७२५ ॥.. व्यापारव्यवसायादि, किञ्चित्कार्यं ततो महत् । ... सुधीश्चिकीर्षुः स्वदिनादिने पूर्व परीक्षते ॥ ७२६॥ विमृश्यैवमथ प्रौढव्यवसायचिकीरसौ । स्वदिनादिनवीक्षार्थमजां प्रथमतोऽग्रहीत् ॥ ७२७॥ अल्पवृष्टौ यथा ह्यल्पमात्रः पङ्कोऽपि जायते । अल्पाहाराऽशने नूनमल्पैवाऽपि विसूचिका ॥ ७२८॥ अल्पैव हि वपुष्पीडाप्यल्पौच्चात्यतने पुनः । अल्पव्यवहृतौ चाल्पा, हानिरप्यदिने तथा ॥ ७२९॥ चरणाय बहिर्मुक्ता, सा तेनाऽथ गलस्तनी । तस्मिन्नेव दिने जग्धा, वराकी च वृकेण सा ॥ ७३०॥ . क्रीत्वा क्रीत्वा बहिर्मुक्ता, तेनेत्थं त्रिदिनीमजा । परं नैकापि सन्ध्यायां, पश्चादागात्तदौकसि ॥ ७३१॥ ततो दिनं न मे सम्प्रत्येवं निश्चित्य चेतसि । तदा किमपि नारेभे, व्यवसायं स धीनिधिः ॥ ७३२॥ . कियत्यथ गते काले, पुनस्तेन गलस्तनी । क्रीत्वा प्राग्वद्वहिर्मुक्ता, सुषुवे युगलं च सा ॥ ७३३॥ -७४ .Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106