Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 97
________________ पाणिस्थद्वादशस्वर्णकोटिमूल्यमहामणिः । दर्शयन्वामपाणिस्थादर्श तान्प्रतिबिम्बितान् ॥ ८१२॥ युग्मम्॥ धूर्तमूचे च लाह्येतान्, विमुञ्चैतां पणस्त्रियम् । .. सोऽप्याख्यदेतैरादर्शबिम्बितैः करवाणि किम् ? ॥ ८१३॥ धनदत्तोऽप्युवाचैवं, यादृशी भद्र ! भावना । सिद्धिर्हि तादृशी यादृग् देवः पात्री च तादृशी ।। ८१४॥ त्वया स्वप्रेऽर्पितं यादृगस्या अप्यनया धनम् । प्रत्यर्प्यमाणं चाद्यास्ते, ताक् ते प्रतिबिम्बितम् ॥ ८१५॥ न दोषः कश्चिदत्रेति, स धूर्तोऽथ निरुत्तरः । ... यथागतमगाद्वीडाविलक्षस्त्वरितं क्वचित् ॥ ८१६॥ . निर्मुक्ताऽर्थे ततो मिथ्याविवादान्मुदिताशया । धनदत्ताय सा स्वर्णकोटिं समधिकां ददौ ॥ ८१७॥ एवं प्रवर्धमानर्द्धिर्धनदत्तः स धीनिधिः । षट्पञ्चाशत्स्वर्णकोटीस्वामी समजनि क्रमात् ॥ ८१८॥ अथान्येयुः पुरे तत्र, क्रव्यात्कोऽप्यागमद्बली । गृहीतश्च नृपस्तेन, प्राप्तः प्रान्तदशां द्रुतम् ॥ ८१९॥ नभःस्थो न्यगदत्सोऽथ, क्रव्यादो यदि कोऽपि मे । ददाति बलिमात्मानं, तन्मुञ्चे नृपतिं ध्रुवम् ॥ ८२०॥ अमात्यप्रमुखाः सर्वे, तदुक्तं कर्तुमक्षमाः । सत्त्वहीनतया ह्रीणाः, पौरा नीचैर्व्यलोकयन् ॥ ८२१॥ परोपकृतिनिष्णातो, धनदत्तस्तदा ददे । रक्षसे बलिमात्मानं, मापरक्षाचिकी: स्वयम् ॥ ८२२॥ 1. राक्षस 2. २00नी २६॥ ४२पानी ६२७वाणो -- ८२Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106