Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

Previous | Next

Page 76
________________ तथा चोक्तं सिद्धान्ते “जैहा लांहो तहा लोहो, लाहा लोहो पवड्ढई । दोमासकणयकज्जं, कोडीएऽवि न निट्ठिअं" ॥ 38 ॥ (उत्तराध्ययनसूत्र ) अन्यत्राप्युक्तम्"तृष्णाखानिरगाधेयं, दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते ॥ 39 ॥" ततो लोभाभिभूतात्मा, सिद्धदत्तोऽन्यदा निशि । यामे प्रबुद्धः पाश्चात्ये, चिन्तयामास चेतसि ॥ ५९३ ॥ मच्चित्तेष्टं कथं वित्तं, लाभैर्मेलिष्यतीदृशैः । घटा नूनमवश्यायैर्भियन्ते नहि कुत्रचित् ॥ ५९४॥ तदनर्गलवित्ताप्त्यै, पोते गच्छामि साम्प्रतम् । अश्वैः पोतैरश्मभिर्वा, यल्लक्ष्मीरतिशायिनी ॥ ५९५ ॥ इति चित्ते स निश्चित्य, वित्तार्थी प्रातरुत्थितः । परद्वीपोचितैः पण्यैर्वहनं भृतवान् द्रुतम् ।। ५९६॥ raise विमलो बाल्यवयस्यः शस्य॑वाग्मनाः । पारिणामिकधीरास्ते, स तदा हि तमित्यवग् ॥ ५९७ ॥ आस्तां दूरे धनं बन्धो !, त्यागभोगप्रवर्त्तकम् । पुरा भोजनमप्येकदिनस्यासीन्न ते गृहे ॥ ५९८ ॥ साम्प्रतं तव सम्पन्नं, यदि पुण्यैरियद्धनम् । प्राणान्तकष्टे तत्पोते, किं लोभाद्व्रजसि स्वयम् ? ॥ ५९९ ॥ पोते प्राणान्तकष्टेऽपि, यान्ति युक्तं हि दुर्गताः । यतस्ते हृदि मन्यन्ते, दारिद्र्यान्मरणं सुखम् ॥ ६०० ॥ १. "यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते । द्विमाषकनककार्यं, कोट्याऽपि न निष्ठितम् " ॥ इति च्छाया । 1. ‘વખાણવા લાયક છે વાણી અને મન જેનું એવો' ૬૧

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106