Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 45
________________ ताम् । दुष्कर्मोष्मविलीनात्मशक्तिर्भक्तिमदर्शयन् ।। प्राप्तस्तत्र विपद्याऽथ, स पाप: सप्तमावनौ ॥ २७०॥ पुष्पवृष्टिं विदधतां, नृपमूर्ध्नि दिवौकसाम् । धर्मे जयः क्षयः पाप, इत्यभूवन् गिरश्च खे ॥ २७१॥ प्रादुर्भूयाऽथ देवोऽवक्, त्वया शुश्रूषितस्तदा । ग्लानो वैदेशिकश्राद्धः, समाहितमना मृतः ॥ २७२॥ .. देवभूयं गतः सोऽहं, तवायातेऽद्य सङ्कटे । आगां जयश्रियं दातुं, हृत्वावस्वापिनीं सखें ! ॥ २७३॥. इत्युक्त्वा स सुरः स्वर्णरत्नकोटीः परःशताः । रत्नपालनृपस्याग्रे, वृष्ट्वा च दिवि जग्मिवान् ॥ २७४॥ विजित्याऽथ जयाऽमात्यं, पौरक्लृप्तैर्महामहैः । स्वराज्यपुर्यामविशत्स प्रियामिलनोत्सुकः ॥ २७५ ॥ हृद्यैर्भोज्यैर्विधायाऽथ, पारणं पत्युराज्ञया । चक्रे सर्वाङ्गशृङ्गारं, हृष्टा शृङ्गारसुन्दरी ॥ २७६॥ तास्ता: स्वशीलरक्षार्थं, श्रुत्वा सोढा: कदर्थनाः । नृपश्रेष्ठश्च मुदितः, पट्टराज्ञीमिमां व्यधात् ॥ २७७॥ अथ पालयतो राज्यं, तस्य भूभर्तुरन्यदा । इति व्यजिज्ञपन्प्रातः, केचिदेत्य वनेचराः ॥ २७८॥ गिरिप्रायवपुर्वन्यः, कुतश्चिजात्यकुञ्जरः । प्राप्तः प्रणुन्नस्ते पुण्यैरुद्याने राजकुञ्जर ! ॥ २७९॥ कौतुकेन वशीकर्तुमथ तं वन्यहस्तिनम् । कुशलो गजशिक्षायां, तत्र प्राप्तो नृपः स्वयम् ॥ २८०॥ 1. देव५ - 30 .Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106