Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

Previous | Next

Page 43
________________ कृपाणपाणिरेकाकी, तत्रागात्कौतुकेन सः । प्रासांदमेकं चाद्राक्षीत्तुङ्गशृङ्गं सुधोज्ज्वलम् ॥ २४९ ॥ तत्र प्रविशति क्ष्माप:, स यावत्सत्त्वसेवधिः । तावत्सखीभिः सहिता, काचिद्विद्याभृतः कनी ॥ २५० ॥ जिनाग्रे गीतनृत्यादीन्, विधाय विविधोत्सवान् । रम्यं विमानं चारुह्य, स्वस्थानमगमद् द्रुतम् ॥ २५१ ॥ युग्मम् ॥ अथ प्रविष्टः प्रासादे, प्रतिमां प्रथमार्हतः । प्रणम्य परितो भ्राम्यन्, दिदृक्षू रमणीयताम् ॥ २५२ ॥ सौभाग्यमञ्जरीनामाङ्कितं निपतितं पुरः । तत्र दिव्यं स वलयं, वीक्ष्य क्ष्मापतिरग्रहीत् ॥ २५३ ॥ युग्मम् ॥ प्रातरागत्य कटकं, पुरतश्चलितोऽथ सः । क्रमेणाप्तः स्वराज्याप्तिसोत्कण्ठः स्वपुरान्तिकम् ॥ २५४ ॥ अथ तं राज्यमादातुमागच्छन्तं महौजसम् । श्रुत्वा विषादमापन्नो, जयराजो व्यचिन्तयत् ॥ २५५ ॥ प्रौढिमाप्तस्य मे कर्त्ता, किं वराकोऽयमेककः । मयेति बुद्ध्या यज्जीवन्, मोचितोऽयं तदा वने ॥ २५६ ॥ मन्ये दुर्दैवनुन्नेन, तन्मया कुधिया हहा ! । विपुच्छीकृत्य कृष्णाहिर्मुच्यते स्म स्वमृत्यवे ॥ २५७॥ यदुक्तं राजनीतौ— " विराध्यते न नीतिज्ञैर्महानात्महिताऽर्थिभिः । कर्हिचित्स विराद्धश्च तर्हि जीवन् न मुच्यते" ॥ 25 ॥ अन्यत्राप्युक्तम् "उत्तिष्ठन्तो निवार्यन्ते, सुखेन व्याधिशत्रवः । भवन्त्युपायासाध्यास्ते, बद्धमूलास्तु मृत्यवे " ॥ 26 ॥ ૨૮

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106