________________
कृपाणपाणिरेकाकी, तत्रागात्कौतुकेन सः । प्रासांदमेकं चाद्राक्षीत्तुङ्गशृङ्गं सुधोज्ज्वलम् ॥ २४९ ॥ तत्र प्रविशति क्ष्माप:, स यावत्सत्त्वसेवधिः । तावत्सखीभिः सहिता, काचिद्विद्याभृतः कनी ॥ २५० ॥ जिनाग्रे गीतनृत्यादीन्, विधाय विविधोत्सवान् ।
रम्यं विमानं चारुह्य, स्वस्थानमगमद् द्रुतम् ॥ २५१ ॥ युग्मम् ॥ अथ प्रविष्टः प्रासादे, प्रतिमां प्रथमार्हतः । प्रणम्य परितो भ्राम्यन्, दिदृक्षू रमणीयताम् ॥ २५२ ॥ सौभाग्यमञ्जरीनामाङ्कितं निपतितं पुरः ।
तत्र दिव्यं स वलयं, वीक्ष्य क्ष्मापतिरग्रहीत् ॥ २५३ ॥ युग्मम् ॥ प्रातरागत्य कटकं, पुरतश्चलितोऽथ सः । क्रमेणाप्तः स्वराज्याप्तिसोत्कण्ठः स्वपुरान्तिकम् ॥ २५४ ॥ अथ तं राज्यमादातुमागच्छन्तं महौजसम् । श्रुत्वा विषादमापन्नो, जयराजो व्यचिन्तयत् ॥ २५५ ॥ प्रौढिमाप्तस्य मे कर्त्ता, किं वराकोऽयमेककः । मयेति बुद्ध्या यज्जीवन्, मोचितोऽयं तदा वने ॥ २५६ ॥ मन्ये दुर्दैवनुन्नेन, तन्मया कुधिया हहा ! । विपुच्छीकृत्य कृष्णाहिर्मुच्यते स्म स्वमृत्यवे ॥ २५७॥ यदुक्तं राजनीतौ—
" विराध्यते न नीतिज्ञैर्महानात्महिताऽर्थिभिः । कर्हिचित्स विराद्धश्च तर्हि जीवन् न मुच्यते" ॥ 25 ॥
अन्यत्राप्युक्तम्
"उत्तिष्ठन्तो निवार्यन्ते, सुखेन व्याधिशत्रवः । भवन्त्युपायासाध्यास्ते, बद्धमूलास्तु मृत्यवे " ॥ 26 ॥
૨૮