________________
मुग्धोचितेन वातीतशोचनेनाऽमुना कृतम् । किन्त्वद्य सम्मुखीभूय, प्रिये वा मारयाम्यमुम् ॥ २५८॥ स्वर्गाप्तिः स्वमृतौ शौर्य्याद्राज्याप्तिश्चाऽरिमारणे । शूराणां युधि तन्नूनं,मोदको हस्तयोर्द्वयोः ॥ २५९॥ अथेत्थं धैर्यमालम्ब्य, स चित्ते सचिवाऽधमः । राज्ञः सम्मुखमागत्य, ससैन्यः समरेऽमिलत् ॥ २६०॥ खड्गैः कुन्तैः शरवातैः, गदाभिर्मुद्गरैस्तथा ।। तत्र क्रूराशयाः शूरा, मिथो युयुधिरे चिरम् ॥ २६१॥ रत्नपालनृपालस्य, सैन्येनातिबलीयसा । जयामात्याधमस्याथ, सर्वं सैन्यमभज्यत ॥ २६२॥ पलायमानं तद्वीक्ष्य, तंदा क्रुद्धेन मन्त्रिणा । मुक्तावस्वापिनी निद्रा, नृपसैन्ये प्रसृत्वरी ॥ २६३॥ तया प्रनष्टचैतन्यं; नृपतेर्निखिलं बलम् । नाज्ञासीदथ शस्त्राणिं,हन्त हस्ताद्गलन्त्यपि ॥ २६४॥ सर्वकृत्यालसं वीक्ष्य, ज्येष्ठमासीव सत्तदा । पतितः सुमहाकष्टे, व्यषीदत्स नृपो हृदि ॥ २६५॥ अथं वैदेशिकग्लानश्राद्धो योऽभूत्सुरः पुरा । प्रत्युक्ताऽवधिरैक्षिष्ट, स तं पतितमापदि ॥ २६६ ॥ तदा प्रत्युपकाराय, स तत्रागत्य कृत्यवित् । हृत्वावस्वापिनी राज्ञः, स्वस्थीचक्रेऽखिलं बलम् ॥ २६७॥ अथ तत्सुरसांनिध्योद्भूताऽद्भुतबलं बलम् । प्रावर्त्तत पुनर्योद्धं, सोत्साहं सह शत्रुभिः ॥ २६८॥ स्वस्थीभूते तदा सैन्ये, रत्नपालस्य भूभुजः । क्षीणविद्याबलो मन्त्री, निराशोऽभूजयश्रियाम् ॥ २६९॥
- २८