________________
ताम् ।
दुष्कर्मोष्मविलीनात्मशक्तिर्भक्तिमदर्शयन् ।। प्राप्तस्तत्र विपद्याऽथ, स पाप: सप्तमावनौ ॥ २७०॥ पुष्पवृष्टिं विदधतां, नृपमूर्ध्नि दिवौकसाम् । धर्मे जयः क्षयः पाप, इत्यभूवन् गिरश्च खे ॥ २७१॥ प्रादुर्भूयाऽथ देवोऽवक्, त्वया शुश्रूषितस्तदा । ग्लानो वैदेशिकश्राद्धः, समाहितमना मृतः ॥ २७२॥ .. देवभूयं गतः सोऽहं, तवायातेऽद्य सङ्कटे । आगां जयश्रियं दातुं, हृत्वावस्वापिनीं सखें ! ॥ २७३॥. इत्युक्त्वा स सुरः स्वर्णरत्नकोटीः परःशताः । रत्नपालनृपस्याग्रे, वृष्ट्वा च दिवि जग्मिवान् ॥ २७४॥ विजित्याऽथ जयाऽमात्यं, पौरक्लृप्तैर्महामहैः । स्वराज्यपुर्यामविशत्स प्रियामिलनोत्सुकः ॥ २७५ ॥ हृद्यैर्भोज्यैर्विधायाऽथ, पारणं पत्युराज्ञया । चक्रे सर्वाङ्गशृङ्गारं, हृष्टा शृङ्गारसुन्दरी ॥ २७६॥ तास्ता: स्वशीलरक्षार्थं, श्रुत्वा सोढा: कदर्थनाः । नृपश्रेष्ठश्च मुदितः, पट्टराज्ञीमिमां व्यधात् ॥ २७७॥ अथ पालयतो राज्यं, तस्य भूभर्तुरन्यदा । इति व्यजिज्ञपन्प्रातः, केचिदेत्य वनेचराः ॥ २७८॥ गिरिप्रायवपुर्वन्यः, कुतश्चिजात्यकुञ्जरः । प्राप्तः प्रणुन्नस्ते पुण्यैरुद्याने राजकुञ्जर ! ॥ २७९॥ कौतुकेन वशीकर्तुमथ तं वन्यहस्तिनम् । कुशलो गजशिक्षायां, तत्र प्राप्तो नृपः स्वयम् ॥ २८०॥ 1. देव५
- 30 .