________________
पुञ्जीकृत्योत्तरीयं प्राग्, गजस्याग्रेऽथ सोऽक्षिपत् । क्रोधोद्बोधांन्मदोन्मत्तः, सोऽव्यात्सीत्तद्रदैर्मुहुः ॥ २८१॥ पृष्ठभागेऽथ स गजं, प्राहरद्दृढमुष्टिना । वलमानं भ्रमंश्चक्रभ्रमेणाऽखेदयच्च तम् ॥ २८२ ॥ सुचिरं खेदयित्वैवं, वशीकृत्य च भृत्यवत् । उत्प्लुत्य द्रुतमारूढो, यावदेतं स भूपतिः ॥ २८३ ॥ स तावद्वन्यकरटी, प्रकटीकृतकैतवः । अकस्मादुत्पपातोच्चैः पक्षिराज इवाम्बरे ॥ २८४ ॥ चक्ररेखा इव नदीर्महाऽद्रीन्मूढकानिव । कीटिकानगराणीव, महान्ति नगराणि च ॥ २८५ ॥ अथ राजा व्रजन् व्योम्नि, सुदूरत्वादधो भुवि । सकौतुकं वीक्षमाणस्त्यक्तभीतिर्व्यभावयत् ॥ २८६ ॥ युग्मम् ॥ मित्रेणाऽनेन विविधाश्चर्यां दर्शयितुं भुवम् । हृतोऽद्याऽहं शत्रुणा वा, कचित्क्षेप्तुं महापदि ॥ २८७॥ इति संशीतिमापन्नस्तटाके महति क्वचित् । हस्तिस्कन्धाददाज्झम्पां, स तीर्त्वा चागमत्तटम् ॥ २८८ ॥ तत्राऽथ दिव्यप्रासादे, प्रविष्टः पृथिवीपतिः । तृतीयभूमावैक्षिष्ट, भस्मपुञ्ज महत्तरौ ॥ २८९ ॥ तयोरदूरतो नागदन्तके चाऽवलम्बितम् । रसेन पूर्णं प्रैक्षिष्ट, तुम्बकं सुमहन्नृपः ॥ २९० ॥ गृह्णानेऽथ नृपे तत्र, तुम्बकं तत्ससम्भ्रमम् 1 रसबिन्दोर्निपतनाज्जाते दिव्यस्त्रियौ च ते ॥ २९९ ॥ विस्मितोऽथ नृपोऽप्राक्षीद्दिव्यरूपे नु के युवाम् ? | अस्मादकस्मादुद्भूते, भस्मपुञ्जद्वयादुभे ॥ २९२ ॥
૩૧
€