________________
नृपं सप्रेम पश्यन्त्यौ, ते अप्येवमवोचताम् । उभे महाबलस्यावां, सुते विद्याभृदीशितुः ॥ २९३॥ पत्रवल्लीमोहवल्लीनाम्यौ प्राप्ते च यौवनम् । खेटेनोद्वोढुकामेन, मातङ्गेन महौजसा ॥ २९४॥ आवां परेधुर्हत्वाऽत्र, मुक्ते विद्याकृते गृहे । ईर्ष्यालुचित्तश्च यदा, कुत्रचित्स यियासति ॥ २९५॥ तदावां विद्यया भस्मराशीकृत्य प्रयाति सः । अनेनोज्जीवयत्याशु, सरसेनागतः पुनः ॥ २९६॥ प्राप्तोऽस्यद्याऽत्र नौ पुण्यैर्वरं तस्मिन् गते वचित् । दुरात्मा स तु मा ज्ञासीत्सुन्दर ! त्वामिहागतम् ॥ २९७॥ इति ब्रुवाणयोरेव तयोर्विद्याबलोद्धतः । तत्रागमत्स मातङ्गस्तत्पाणिग्रहणोत्सुकः ॥ २९८॥ अद्याऽस्मदर्थं पुरत्नमीदृग् हन्त हनिष्यति । अयं दुरात्मेति भृशं, विषीदन्मनसोस्तयोः ॥ २९९ ॥ मामजानन्तमेवैतमायान्तं हन्मि साम्प्रतम् । क्षत्राणां वा नैष धर्मस्तत्पूर्वं वादयाम्यमुम् ॥ ३०॥ नृपे च चिन्तयत्येवं, तत्राकस्मादुपेत्य सः ।। करेणोच्छाल्य दशनैधृत्वातमवधीद्गजः ॥३०१॥(त्रिभिर्विशेषकम्) , नभोगामी गजः कोऽयं, किमर्थं चामुनाऽधुना । .. हतोऽयमिति साश्चर्यहर्षोऽभूत्स नृपस्तदा ॥ ३०२॥ इतश्च सुविषण्णात्मा, महाबाहुर्महाबलः । भ्रमन्स्वपुत्रीशुद्ध्यर्थं, तत्र सौधे समीयिवान् ॥ ३०३॥
-
२