________________
नृपं च सकनीद्वन्द्वं तत्रालोक्य मुदेत्यवग् । प्रोक्तं महानुभाव ! प्रागासीन्नैमित्तिकेन नः ॥ ३०४ ॥ यन्मातङ्गनभोगेन, विद्यया भस्मसात्कृतम् । कन्याद्वन्द्वमिदं दिव्यं, जीवयिष्यति यः पुमान् ॥ ३०५ ॥ यत्सांनिध्याय मातङ्गं, गजश्चैत्य हनिष्यति । स भावी ते सुताभर्त्ता, सत्यं सञ्जातमद्य तत् ॥ ३०६ ॥ अत्रान्तरे महोराशिरिवाविर्भूय सत्वरम् ।
कश्चित्सुपर्वा श्रीरत्नपालं सस्नेहमित्यवग् ॥ ३०७॥ तदा कृतं त्वया राजन्नुपकारं स्मरन्नहम् । जयामात्ययुधि प्राप्तस्तत्र दातुं जयश्रियम् ॥ ३०८ ॥ कन्याद्वयाप्त्यै त्वामद्याऽपाहरं द्विपरूपभाक् दुरात्मानं च मातङ्गनभोगं हेलयाऽहनम् ॥ ३०९ ॥ एतद्दिव्यरसापूर्णं, सुप्रापं सुकृतात्मभिः । • तुम्बकं चाधुना भ्रातर्गृहाणानुगृहाण माम् ॥ ३९० ॥ चतुर्विंशतिवर्षाणि, कन्दमूलफलादिभुक् ।
प्रत्यहं प्रहरद्वन्द्वं जपन्मन्त्रमधोमुखः ॥ ३११ ॥
होमं च तन्वन्मातङ्गविद्याभृद्दुष्करक्रियः ।
नागाधिनेतुः सन्तुष्टात्, प्राप दिव्यममुं रसम् ॥ ३१२ ॥ युग्मम् ॥ अस्यैकबिन्दुना स्पृष्टा, लोहस्य पलकोटयः । स्वर्णीभवन्ति शाम्यन्ति, दुःर्साध्या व्याधयस्तथा ॥ ३१३॥ अस्य स्पर्शाद्विलीयन्ते, भूतप्रेताद्युपद्रवाः । व्यापार्यमाणोऽप्यनिशं न च न्यूनीभवत्ययम् ॥ ३१४॥
१. 'दुःसाधा' इत्यपि ।
33