________________
अनेन च जगज्जैत्रमहिम्ना तिलके कृते ।
अजय्यः स्यान्नरोऽवश्यं, युधि देवासुरैरपि ॥ ३१५ ।। अथान्यदपि दुःसाधं, सर्वमेतेन सिद्ध्यति । अतिशेते ततश्चिन्तारत्नादीन्यप्ययं ध्रुवम् ॥ ३१६ ॥ कार्ये त्वयाहमुत्पन्ने, स्मरणीयः पुनः सखे ! | इत्युक्त्वा स तिरोभूतः, सुरो विद्युत्प्रकाशवत् ॥ ३१७॥ सांनिध्येन सुरस्यास्य, विस्मितोऽथ महाबलः । विमाने नृपमारोप्य, वैताढ्ये स्वपुरेऽनयत् ॥ ३१८॥ तत्र स्वपुण्योपनते, ते कन्ये सुन्दराकृती । परिणिन्ये स भूजानिर्महाबलकृतैर्महैः ॥ ३९९ ॥ महाबलाद्यैर्विद्याभृद्वीरैर्विनयवामनैः ।
तत्र सत्क्रियमाणश्च दिनान्यस्थात्स कत्यपि ॥ ३२० ॥ इतश्च तत्रैव गिरौ, पुरे गगनवल्लभे । आस्ते वल्लभभूभर्त्तुर्बली हेमाङ्गदः सुतः ॥ ३२१ ॥ अन्वर्थसंज्ञा दुहिता, पुनः सौभाग्यमञ्जरी । कलाकलापकुशला, क्रमाद्यौवनमीयुषी ॥ ३२२ ॥ पुण्यैः प्रसन्नमनसा, कुलदेव्याऽन्यदा ददे । दिव्यं रत्नमयं तस्यै, वलयं सर्वकामदम् ॥ ३२३ ॥ समं सखीभिः सानन्दं, तस्याश्च जिनसद्मनि । नृत्यन्त्या निशि तद्दैवात्प्रकोष्ठाद्गलितं क्वचित् ॥ ३२४॥ अबालप्रकृतिर्बाला, ततः प्रभृति खेदभाग् । हित्वा सा सरसाहारं, फलाहारा तपस्यति ॥ ३२५ ॥
૩૪