________________
पृष्टः सौवंसुतादुःखदुःखितेनाऽथ भूभुजा । इत्यष्टाङ्गनिमित्तज्ञः, स्पष्टमाचष्ट कश्चन ॥ ३२६॥ राजन् ! सौभाग्यमञ्जर्याः, स्वयंवरणमण्डपे । नूनं वलयापहर्ता, स्वयमेष्यति सत्पुमान् ॥ ३२७॥ रूपेणातिस्मरश्चैतां,स तत्र परिणेष्यति । हृष्टोऽथाऽमण्डयत्तस्याः, स्वयंवृतिमह पिताः ।। ३२८ ॥ दूताहूताश्च बहवस्तत्रेयुः खेचरेश्वराः । महाबलाद्यानुगतो, रत्नपालोऽपि कौतुकात् ॥ ३२९॥ सुरूपान्सदलङ्कारांस्तत्रासीनान्नभश्चरान् । विलोकयन्ती प्रत्येकमेत्य सौभाग्यमञ्जरी ॥ ३३०॥ ववे वीक्ष्य स्ववलयाङ्कितहस्तं नृपं तदा । जहषुश्चोपलक्ष्यैनं, खेटा हेमाङ्गदादयः ॥ ३३१॥ युग्मम् ॥ अथान्ये खेचराः सर्वे, भूचरेण वृतामिमाम् ।। वीक्ष्य विध्यातवदना, अन्योऽन्यं व्यमृशन्निदम् ॥ ३३२॥ दोष्मतामियतां विद्याभृतां चेदद्य पश्यताम् । परिणेष्यत्ययं कन्यां, तज्जीवन्तोऽपि ते मृताः ॥ ३३३ ।। ततस्ते स्वपराभूतिप्रोद्भूतप्रबलक्रुधः । ससैन्या योद्धमुत्तस्थुः, सर्वे सन्नह्य सत्वरम् ॥ ३३४॥ महाबलैवल्लभायैः, खेटवीरैर्वृतस्तदा । तद्दिव्यरसजातौजा, युध्यजय्यः सुरैरपि ॥ ३३५ ।। शस्त्राशस्त्रि चिरं युद्धवा, रत्नपालः क्षमापतिः । हेलया तान् द्विषोऽजैषीत्कन्यामादातुमुद्यतान् ॥ ३३६ ॥ १. स्वकीय । “पृष्टोऽसौ च' इत्यपि ।
--- 3५ - -