________________
नराणां निर्जराणां च तदेत्यासन् गिरोऽभितः । सर्वानाश्चर्यमेकोऽपि, खेचरान्भूचरोऽभ्यभूत् ॥ ३३७ ॥ ताभिः पराभिभूताश्च तेऽभूवन्दुःखिता भृशम् । उच्च्छास्यमानाः शस्त्रीभिर्युधीव पतिता भटाः ॥ ३३८ ॥ रत्नपालोऽपि विद्वेषिजयश्रियमिवाङ्गिनीम् । सौभाग्यमञ्जरीं कन्यां, पाणौ चक्रे महामहैः ॥ ३३९॥
दत्ता हेमाङ्गदेनात्मप्राच्यप्रीत्या च भूरिशः ।
विद्या: प्रज्ञप्तिगौर्याद्याः साधयामासिवान् नृपः ॥ ३४० ॥ वैताढ्यस्योभयोः श्रेण्योर्जित्वा सर्वनभश्चरान् । प्रावर्त्तयत्पुनः स्वाज्ञां, सिद्धविद्यः स भूमिभुग् ॥ ३४१॥ विविधप्राभृतश्रेणीसम्भृतश्रीस्ततोऽथ सः ।
ताभिः प्रियाभिस्तिसृभिः सहितः सुहिताशयः ॥ ३४२ ॥ निषेव्यमाणो विद्याभृद्वीरैर्हेमाङ्गदादिभिः ।
दिव्यं विमानमारूढः, प्राप्तः स्वनगरं सुखम् ॥ ३४३ ॥ गजापहारादारभ्य, दुःखदाहार्दिताः प्रजाः । स्वदर्शनसुधावृष्ट्या, सद्यो ऽशीतलयच्च सः ॥ ३४४॥ परिच्छेदस्तृतीयः
,
-
"
प्रतापतपनः प्राप्तं, प्राच्यपुण्यैः पचेलिमैः ।
निःसपत्नमथ प्राज्यं, राज्यं पालयतीति सः ॥ ३४५ ॥
अथ च
कथामपूर्वामाश्चर्यभूतां यः कथयेत्पुमान् ।
तस्मै दत्ते सुवर्णानां दश लक्षाः स निश्चितम् ॥ ३४६ ॥
૩૬