________________
,
दीनार्त्तदुः स्थानाथादीन्स्थूललक्षः स लक्षशः । साधारयत्यनुदिनं, स्वर्णलक्षा ददद्दश ॥ ३४७ ॥ सम्यक् काव्यरसाऽभिज्ञः स कूर्चालसरस्वती । दत्ते सत्काव्यकर्तृभ्यो, लक्षाश्चानुदिनं दश ॥ ३४८ ॥ सर्वत्र प्रसरत्कीर्त्तिः, कीर्त्तिदानोल्लसन्मतिः । द्वे स्वर्णलक्षे अर्थिभ्यो, विश्राणयति चान्वहम् ॥ ३४९ ॥ धर्मप्राप्तातुलैश्वर्यो, धर्मश्रद्धालुहृत्पुनः । संप्तक्षेत्र्यां व्यययति, त्रिंशल्लक्षीं स सर्वदा ॥ ३५० ॥ स्वान्तःपुरस्वांङ्गभोगपत्तिभृत्यनियोगिषु । गजाश्वादौ च तस्याष्टत्रिंशल्लक्षव्ययो ध्रुवम् ॥ ३५१ ॥ अमुष्य प्रत्यहं स्वर्णकोटी ह्येवं विलोक्यते । तेन दिव्यरसेनाशु, सापि सम्पद्यते सुखम् ॥ ३५२ ॥ इतश्च द्यूतकारोऽस्ति, तत्रैकः प्रत्यहं च सः । . लक्षं जयति द्रम्माणां, पुनर्हारयति ध्रुवम् ॥ ३५३ ॥ द्रम्मंत्र्शस्तु सन्ध्यायां, ध्रुवस्तस्यावशिष्यते । तन्मूल्येनाऽथ गोधूमपूपान्पचति स क्वचित् ॥ ३५४ ॥ गत्वा चण्डीगृहे चण्डीस्कन्धे न्यस्य पदौ च सः । प्रदीपतैलेनाऽभ्यज्य, तान्निः शूकोऽत्ति सर्वदा ॥ ३५५॥ इंदानीमत्र यद्येति, जनः कश्चन कर्हिचित् । सर्वत्र विश्रुतं नूनं, मन्माहात्म्यमुपैति तत् ॥ ३५६ ॥ चिन्तयन्तीति सुचिरं, भृशं खेदमुपेयुषी ।
सा चण्डी कथमप्येनं, निवारयितुमिच्छति ॥ ३५७ ॥
१. 'दानशौण्डः ' । २. " व्ययति त्रिंशतं लक्षा:, सप्तक्षेत्र्यां स सर्वदा ।" इत्यपि । ३. 'स्वाङ्गखान्त: पुरीभोग' इत्यपि ।
39