________________
तथा भक्षयति स्वैरं, तस्मिन्यूपानथाऽन्यदा । सा तं भापयितुमना, रसनां निरसीसरत् ॥ ३५८ ॥ चण्डि ! खाद त्वमप्येतत्पूपखण्डमिति ब्रुवन् । जिह्वायां सोऽमुचत्साऽपि, मायया तदभक्षयत् ॥ ३५९ ॥ जिह्वायां सुप्रलम्बायां, कर्षितायां पुनस्त्वया । रे चण्डि ! रण्डे ! लुब्धासीत्युक्त्वा तेनाऽथ थूत्कृतम् ॥ ३६० ॥ रसनां थूत्कृतोच्छिष्टां, प्रक्षिपामि कथं मुखे ?। इति ध्यात्वा तथैवास्थात्, सा विषण्णमनाः सुरी ॥ ३६१।। तथा भीष्ममुखीं वीक्ष्य, चण्डी प्रातरथो जनाः । अयमुत्पात उत्पन्नोऽनायेत्यवदन्मिथः ॥ ३६२ ।। शान्तिकादीन्यकार्यन्त, तैश्च तस्योपशान्तये । तथापि देवी रसनां, नगेच्छिष्टेत्यक्षिपन्मुखे ॥ ३६३॥ शमयत्येनमुत्पातं, योऽथ स्वर्णशतं हि सः । लभतेऽद्य जनैरेवं, पटहोऽवाद्यताऽभितः ॥ ३६४॥ आत्मप्रत्यक्षमुत्पन्नं, तमुत्पातं विदंस्तदा । स धूर्तः पटहं स्पृष्ट्वा, सुवर्णशतमग्रहीत् ।। ३६५ ।। विजनं कारयित्वाऽथ, प्रविश्यान्तर्गृहं च सः । प्रौढं पाषाणमुद्यम्य, चण्डी निष्ठुरमित्यवग् ॥ ३६६ ।। रे चण्डि ! रण्डे ! रसनां, पश्चाक्षिप मुखेऽधुना । नो चेदनेन भक्ष्यामि, भवत्या नूनमाननम् ॥ ३६७॥ दुरात्मनोऽस्य नोद्धारः, कश्चित्पापेऽत्र कर्मणि । आत्महानिर्जने हास्यं, चेत्थं चेति भयेन सा ॥ ३६८ ।।
--
3८
:----