________________
किमप्यनर्थमेतस्मिन्निःशूके कर्तुमक्षमा । अनन्यंगतिकत्वेन, तदा जिह्वां मुखेऽक्षिपत् ॥ ३६९॥ युग्मम्॥ शान्तेऽथ तस्मिन्नुत्पाते, पौराः प्रमुदिताः समे । धूर्त्तश्च तद्धनं सर्वं, तस्मिन्नेवोऽयहारयत् ॥ ३७०॥ - यदुक्तम्
"द्विघटं ग्रहिला मूर्ध्नि, द्यूतकारकरे धनम् । हारश्च मर्कटीकण्ठे, कियढेलं हि तिष्ठति" ?॥ 27॥ तदनन्तरमप्येत्य, नक्तं. चण्डीगृहे सदा । पूपानत्ति गताशङ्को, द्यूतकारस्तथैव सः ॥ ३७१॥ अथान्यदा किमप्यन्यन्निःशूके कर्तुमक्षमा । दूना दुर्विनयाच्चास्माद्भूर्ते तत्रागते निशि ॥ ३७२ ॥ चण्डी निष्काशयामास, दीपमेव स्ववेश्मतः । तिष्ठ दीप ! व यासीति, वदन्पृष्ठेऽचलच्च सः ॥३७३॥युग्मम्॥ तदा देवीनियोगेन, दीपोऽवक् तमिति स्फुटम् । रुक्षानेवाद्धि रे! पूपांस्तैलं दास्ये न ते मनाग् ॥ ३७४॥ ‘यास्याम्यब्धेः परतटं, पश्चाच्च वलसे न किम्? । सोऽथाह तैलं लास्यामि, तत्राप्येत्य व यास्यसि ? ॥ ३७५ ॥ दीपोऽग्रे पृष्ठतो धूर्त, इति यान्तौ द्रुतं द्रुतम् । भास्करेऽभ्युदिते प्राप्तौ, दूराटव्यामुभावपि ॥ ३७६ ॥ तं तदा विप्रतायैवं, तत्र दीपस्तिरोहितः । क्षिप्तोऽहिवद् रिपुर्दूर-मिति हटा च सा सुरी ॥ ३७७॥ हा ! देव्या वञ्चितोऽस्मीति, विषण्णोऽथ वने भ्रमन् । स धूर्तः प्रज्वलद्वह्निकुण्डस्य सविधे स्थितम् ॥ ३७८ ॥ १. 'थं तस्मिंश्च' इत्यपि । २. 'व दिनेऽव्ययत्' इत्यपि । ३. 'वेश्मनः' इत्यपि ।