________________
अप्सरोजैत्रसौभाग्यं, प्रत्यग्रोल्लासि यौवनम् । कन्याद्वयं नरं चैकं, दृष्टवान् विकलाङ्गकम् ॥ ३७९॥ युग्मम्॥ किमर्थं के युवामोत्यादि पृष्ठे च तेन ते । नोचतुस्ते परं किञ्चिद्व्यावृत्त्याऽगात्पुरेऽथ सः ॥ ३८०॥ रत्नपालोऽत्र नृपतिस्तथ्यापूर्वाद्भुतां कथाम् । कथयित्रे सुवर्णानां, लक्षा दत्ते दश ध्रुवम् ॥ ३८१॥ इति ज्ञात्वा स राज्ञोऽथ, तद्वृत्तं सर्वमप्यवम् । कौतुकेन नृपः सद्यस्तत्र तेन सहागमत् ॥ ३८२॥ कृशानुकुण्डं किमिदं, दीनोऽयं कश्च के युवाम् । ... विश्वस्ते वदतं सम्यग, रत्नपालोऽस्म्यहं नृपः ॥ ३८३॥ पृच्छतीत्थं नृपे तस्मिंस्तयोरेकाऽवंदत्कनी । राजन् ! गन्धर्वराजस्य, नाम्ना विश्वावसोः सुते ॥ ३८४॥ देवसेना च गन्धर्वसेनेत्यावां हि विश्रुते ।। तारुण्यमाप्ते लावण्यकन्दोद्भेदाम्बुदं क्रमात्. ।। ३८५॥ युग्मम्॥ . तत्तन्मन्त्रघृताहुत्यादिभिर्दीप्तातुलाऽर्चिषि । स्तब्धुं शक्ये न केनापि, मन्त्रतन्त्रौषधीबलैः ॥ ३८६॥ यमास्यभीष्मे दिव्याग्नौ, यः स्नास्यति नरोत्तमः । भावी भर्ता भवत्पुत्र्योः, स नूनं सत्त्वसेवधिः ॥ ३८७॥ युग्मम् ।। परैरजेयो भविता, भरतार्द्धाऽधिपश्च सः । इति दैवज्ञवाग्नुन्नः, पिता नौ मुक्तवानिह ॥ ३८८॥ सत्त्वाधिकं च तमभिज्ञातुं तेन स्वविद्यया । हीनसत्त्वैः सुदुष्प्रेक्ष्यमग्निकुण्डमिदं कृतम् ॥ ३८९॥ १. 'सुदुष्प्रेक्ष,' इत्यपि ।
-- ४०
-