________________
झम्पामिहाऽस्मल्लोभाच्च, ददत्कोऽप्येष खेचरः । संशयालुरभूद्देव्या, विकलाङ्गीकृतश्च तत् ॥ ३९० ।। निराशोऽयं निरुत्साहः, स्वस्थानं वाऽथ यास्यति । सत्त्वादृते न सिद्धिर्यत्सर्वं सत्त्वे प्रतिष्ठितम् ॥ ३९१ ॥ कन्यावक्त्रादिति श्रुत्वा,सत्त्वाढ्यः सहसा नृपः । कुण्डे झम्पामदात्तच्च, सत्त्वेनाऽभूत्सुधामयम् ॥ ३९२ ॥ तत्र स्नानेन समभूद्राजा वज्रवपुः पुनः । अथागाज्ज्ञाततद्वत्तस्तत्र विश्वावसुः खगः ॥ ३९३ ।। रत्नपालनृपालेन, समं स्वसुतयोस्तयोः । हृष्टोऽथाचीकरत्पाणिग्रहणं स महामहै: ॥ ३९४ ॥ प्राप्तः प्रमुदितः पत्नीद्वयाप्त्या स्वपुरं नृपः । विंशतिं स्वर्णलक्षाश्च, तस्मै द्यूतकृते ददौ ॥ ३९५॥ आगच्छद्भिश्च गच्छद्भिरथान्यायार्जितैर्धनैः । कितवः प्रत्यहं योऽभूत्पूर्णो रिक्तः पुनः पुरा ॥ ३९६ ॥ नृपादासादितप्राज्यसुवर्णो न्यायवर्त्मना । सोऽप्यभूद्वर्द्धमानर्द्धिः, स्पष्टं न्यायफलं ह्यदः ॥ ३९७॥ तस्योत्तमचरित्रस्य, सोऽक्षेधूर्त्तश्च भूभुजः।। परिचित्योपदेशैश्च, निवृत्तो व्यसनाध्वनः ॥ ३९८ ।। निदाघेऽथान्यदा सिद्धसरित्स्त्रोतसि शीतले । विधित्सुः सलिलक्रीडां, नावमारूढवान्नृपः ॥ ३९९ ।। प्रणुन्नाऽऽकस्मिकेनाऽथ, पृष्ठप्रबलवायुना । चचाल पूर्वाभिमुखं, वायुवेगेन मंङ्गिनी ॥ ४०० ॥ १. नौ ।
+ ४१ .