________________
ग्रामारामादि निखिलं, चक्रारूढमिव भ्रमत् । तटयोरुभयोः पश्यत्यवनीशे सकौतुकम् ॥ ४०१॥ घटीद्वयेन पूर्वाब्धेस्तटं प्राप्याऽथ मङ्गिनी । सा स्वयं स्खलितेवास्थादुत्तीर्णश्च नृपस्तटम् ॥ ४०२॥ युग्मम्॥ तत्रागत्य नरः कश्चिद्विनयेनावदच्च तम् । क्क प्राप्तः परदेशेऽहं, विषादमिति मा कृथाः ॥ ४०३महानुभावस्य तवागमनेनात्र निश्चितम् । सर्वेषामपि यद्भावि, सर्वं सुन्दरमायतौ ॥ ४०४॥ नृपस्तदा तमित्याख्यत्सुदुर्लक्षामिहायतिम् । शकुनै: कैर्निमित्तैर्वा, सौम्य ! जानासि साम्प्रतम् ॥ ४०५॥ सत्यवादी सोऽप्यवादीद्वेद्मि कालं यथोत्तरम् ।, यथास्थितं हि तद्वत्तं, शृणु सत्त्वनिधेऽधुना ॥ ४०६॥ पूर्वदेशं दशग्रामकोटियुक्तममुं नृपः । रत्नसेनो भुनक्त्यत्रासन्ने रत्नपुरे वसन् ॥ ४०७॥ एकादश महेभानामस्य लक्षा महौजसाम् । रथानां विंशतिर्लक्षा, लक्षाश्च दश वाजिनाम् ॥ ४०८॥ कोट्यश्च दश पत्नीनामित्याद्यस्त्यखिलं परम् । कर्मानुभावाद् हन्नेत्रानन्दनो नास्ति नन्दनः ॥ ४०९।। अथाऽस्य चाऽभूत्कनकावलीराज्यां सुताद्वयम् । तत्राद्या कनकमञ्जर्यन्या च गुणमञ्जरी ॥ ४१०॥ तयोरकस्मात्तारुण्ये, प्राच्यजन्मार्जितैरघैः । अथोदभूगलत्कुष्टमन्धता च यथाक्रमम् ॥ ४११॥ . १. 'अस्याथ' इत्यपि ।
४२
-