________________
नानांशास्त्रविदो वैद्या, नृपादेशात्सहस्रशः । तयोरनेकैर्भेषज्यैश्चिकित्सां चक्रिरे चिरम् ॥ ४१२।। मान्त्रिकाश्च तयोर्मन्त्रैस्तन्त्रैर्यन्त्रैश्च भूरिभिः । सप्रत्ययैः शुभोत्साहं, चक्रु काः प्रतिक्रियाः ॥ ४१३ ॥ यथाम्नायं यतन्ते स्म, तत्रान्येऽपि सुभूरयः । तयोः कर्मानुभावेन, परं नाभून्मनाग्गुणः ॥ ४१४॥ मन्यमाने मुधैवात्ममर्त्यजन्सामयादिते । ते दुःखान्मरणोन्मुख्यावथ जाते उभे अपि ॥ ४१५ ॥ तयोश्च निबिडस्नेहपाशबद्धहृदौ तदा । राजा राज्ञी च नियतं पृष्टतो मर्तुमिच्छतः ॥ ४१६॥ किंकर्त्तव्यतया मूढेरोंढाथै रथ मन्त्रिभिः । आराद्धा विविधाऽर्चाभी, राज्याधिष्ठायिनी सुरी ॥ ४१७॥ सर्वसाक्षिकमाकाशे, स्थित्वा सा स्पष्टमित्यवग् । रत्नपाल: क्षितिपतिः, पुरत्पाटलिपुत्रकात् ॥ ४१८॥ नावारूढो मत्प्रयोगात्सद्योऽप्यत्र समेष्यति । . महात्मा स च ते कन्ये, विधास्यति निरामये ॥ ४१९॥ युग्मम्॥ इति श्रुत्वा प्रमुदिता, हृदि सर्वे नृपादयः । विद्युद्विस्फूर्जितमिवादृश्याजनि च सा सुरी ॥ ४२०॥ देव्या तदत्रानीतोऽसि, कन्याव्याध्युपशान्तये । योजनानां पञ्चशती, त्वत्पुरं स्यादितः पुरात् ॥ ४२१॥ महद्धर्या मुदिता देव्या, गिरा ज्ञातत्वदागमाः । तव सम्मुखमायान्तो, नृपाद्याः सन्ति सम्प्रति ॥ ४२२॥ 1. રોગથી પીડાયેલી, પોતાનો મનુષ્ય જન્મ નિષ્ફળ માનતી, તે બન્ને પણ દુઃખને કારણે મરણ માટે તત્પર થઈ એમ શ્લોકાર્થ છે.