________________
इति ब्रुवाण एवाऽस्मिंस्ते तत्रैत्यानमन्नृपम् ।। नगरं च नयन्ति स्म, विनयाद्विविधोत्सवैः ॥ ४२३ ।। परोपकृतिनिष्णातो, नृपाद्यैरथ सोऽर्थितः । रोगाभिभूतं तत्कन्यायुग्मं कर्तुं निरामयम् ॥ ४२४ ।। सर्वावसरोपयोगी, स्याद्वपुःपार्श्ववर्त्ययम् । इत्यङ्गदस्थे न्यस्तोऽभूत्, प्राक्कियाँल्लघुकुम्पके ॥ ४२५ ।। भाले तेन रसेनाऽथ, स्पृष्टा तेन कृपालुना । आसेचनकरूपश्रीस्तत्राद्या समभूत्कनी ॥ ४२६ ॥ अञ्जिताऽक्षी च तेनैव, कनी सद्यः कनीयसी । दिवापि तारकालोकक्षमदृष्टिरजायत ॥ ४२७॥ गुणैः क्रीते ततः पुत्र्यौ, रत्नपालनृपाय ते । प्रदत्ते रत्नसेनेन, परिणीते च तेन ते ॥ ४२८॥ रत्नसेनोऽथ जामात्रे, तस्मै राज्यमदानिजम् । स्वयं जग्राह प्रव्रज्यां, भवोद्विग्नमनाः पुनः ॥ ४२९॥ दिनानि कतिचित्तत्र, रत्नपालोऽपि सप्रियः । स्थित्वा तद्राज्यचिन्तायां, मूलामात्यान्नियुज्य च ॥ ४३०॥ पथि प्रौढोपदापाणिमिलन्नैकनृपार्चितः । बलैराकम्पयन्नुर्वी, क्रमादेति निजं पुरम् ॥ ४३१॥ इतश्चाऽपहृते नावा, नृपे सामन्तमन्त्रिणः । व्यमृशन्निति सोद्वेगं, किंकर्तव्यजडा मिथः ॥ ४३२ ।। सम्यक् स्वरूपं हा ! राज्ञो, ज्ञायते न शुभाशुभम् । तदद्यास्वामिकं राज्यं, रक्षणीयमिदं कथम् ? ॥ ४३३॥ 1. સુંદર ભટણા છે હાથમાં જેને એવા મળી રહેલા અને રાજાથી પૂજાયલ
--
४४
-